________________
प्रकरणम् ५३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४४५ गमिरबोधने । ( २-४-४६) इणो गमिः स्यारणौ। गमयति । बोधने तु प्रत्याययति । 'इण्व दिकः' (वा १५७७)। अधिगमयति । 'हनस्तोऽचिएणलोः' द्वित्वे उत्तरखण्डे नकारस्याभ्यासनकारेण व्यवधानाण्णत्वे अप्राप्ते उभयोनकारयोरनेन णत्वमित्यर्थः । न र 'पूर्वत्रासिद्धीयमद्विर्वचने' इति निषेधाद् द्वित्वे कर्तव्ये णत्वस्यासिद्धत्वविरहेण परत्वात् कृते णत्वे ततः पश्चाद् द्वित्वे प्राणिणदिति सिद्धमिति वाच्यम्, अत एव “पूर्वत्रासिद्धीयमद्विर्वचने' इत्यस्यानित्यत्वविज्ञानात् । तेन ऊर्गुनावेत्यत्र णत्वात् पूर्वमेव नुशब्दस्य द्वित्वे कृते अभ्यासोत्तरखण्डे रणत्वाभावसिद्धिरित्यन्यत्र विस्तरः । गो गमिरबोधने । 'इणो गा लुङि' इत्यत इण इत्यनुवर्तते, तदाह इणो गििरति । मकारादिकार उच्चारणार्थः। गमयतीति । प्रापयतीत्यर्थः। प्रत्याययतीति। बोधयतीत्यर्थः । लुछि प्रत्यायियत् । इणो णिचि 'इणो या' इति यणं बाधित्वा परत्वाद् वृद्धौ आयादेशे प्राय इ अत् इति स्थिते यि इत्यस्य द्वित्वम् । न च द्वित्वे कार्ये णावजादेशस्य निषिद्धत्वाद् वृद्धनिषेधः शङ्कयः, 'अजादेति यस्य' इति णिचो द्वित्वे उत्तरखण्डे अवर्णाभावात् । 'इक् स्मरणे' इत्यस्य इण्टात्त्वमुक्तं स्मारयति इण्वदिक इति । अधिगमयतीति । स्मारयतीत्यर्थः । हन्ते अति णिति च तकारादेशमुक्तं णौ स्मारयति हनस्तोऽचितुल्ययोगे' इति समासोऽत्र न स्यादिति शङ्कथम् , तुल्ययोगग्रहणं प्रायिकं सकर्मकः सलोमक इत्युक्त्वादिनि । कैयटे तु उभावित्यस्मिन्नसति साभ्यासस्यानितो भवतीत्युच्यमाने वचनसामर्थ्याच्च 'पूर्वत्रासिद्धीयमद्विवचने' इत्यनाश्रीयमाणे अकृतणत्वस्य द्विवचने कृते अनन्तरन्यानितेरिति पूर्वेणैव णत्वस्य सिद्धत्वाद् व्यवहितनकारार्थमिदं णत्वं स्यात् । अनन्तरस्य तु तककौण्डिन्यन्यायेन न स्यादिति उभावित्युच्यत इति स्थितम् । साभ्यासस्येति किम् , प्राण नमति । असत्यस्मिन् 'अनितेः' इति षष्ठी संबन्धसामान्ये स्यात्त तश्चानन्तर्यादिसंबन्धोऽपि गृह्येत । सति त्वस्मिन्नवयवावयविभावसंम्बन्धो लभ्यते अतोऽर्थवत्साभ्यासप्रहणम् । यदि त्विष्टानुरोधेनानितेरिति षष्ठी अवयवसंबन्धे व्यख्यायते अनितेश्च नकारद्वयाभावात्सामर्थ्याद् द्विवचनं प्राप्त एवानितिधेत तदा सभ्यासस्येति मन्दप्रयोजनम् । इह पूर्व णत्वं कृत्वा द्वित्वे कृते प्राणिणदित्यादिसिद्धाव यमारम्भः 'पूर्वत्रासिद्धीयमद्विवचने' इत्यस्यानित्यत्वज्ञापनार्थः । तेन ऊर्णनावेत्यत्र णत्वात्पूर्वमेव नुशब्दस्य द्वित्वादभ्यासोत्तरखण्डे णत्वाभावः सिद्धः । प्रत्याययतीति । प्रतिपूर्वस्येणो ज्ञानार्थता । लुङि प्रत्यायियत् । इह इणो णिचि कृते 'इणो यण' इति यणं बाधित्वा परत्वाद् वृद्धिः । न च 'ओः पुयजि-' इति ज्ञापकात्पूर्व द्वित्वं पश्चाद् वृद्धिरिति शङ्कयम् , 'अजादेद्वितीयस्य' इति णिचो