________________
४४४ ]
सिद्धान्तकौमुदी ।
[ चि
'मृग -' इति किम् - रञ्जयति पचिणः । रमणादन्यत्र तु रञ्जयति मृगान् तृणदानेन । चुरादिषु ज्ञपादिश्चिञ् । 'चिस्फुरोण' ( सू २५६६ ) । चपयति, चययतीत्युक्तम् । चिनोस्तु चापयति, चाययति । स्फारयति, स्फोरयति । पु स्फरत, अपुस्फुरत् । २६०६ उभौ साभ्यासस्य । (= -४ - २१) साभ्यासस्याfader नका त्वं प्राप्नुतो निमित्ते सति । प्राणिणत । २६०७ गौ यान् करोति-मृगवधासक्लो राजादिरित्यर्थः । अत्र नकारलोपः । रञ्जयति पक्षिण इति । पक्षिणो रजन्ति - प्रात्या भवन्ति । तान् तादृग्व्यापारविषयान् करोतीत्यर्थः । पाक्षग्रहणमिदं न मृगयेति मन्यते । रञ्जयति मृगान् तृणदानेनेति । धावतो मृगान् रक्षणाय तृणसमर्पणेन बन्धनस्थानगान् करोतीत्यर्थः । चुरादिष्विति । चुरादिषु ज्ञपादिपञ्चकान्तर्गतश्चिञ्धातुरस्ति । तस्मात् स्वार्थणिचि कृते 'चिस्फुरो :- ' इति त्वपक्षे पुकि मित्त्वादुपधाहखे चपयतीति रूपम् । श्रावाभावे तु वृद्धौ श्रायादेशे मित्त्वाद् हस्वे चययतीति रूपमुक्तं चुरादावित्यर्थः । चिनोतेस्त्विति । नुविकरणस्य तु चिञ्धातोर्हेतुमण्णौ 'चिस्फुरो:-' इति यत्त्वे पुकि मित्त्वाभावादह्रस्वाभावे चापयतीति रूपम् । आत्त्वाभावे वृद्धौ श्रायादेशे मित्त्वाभावाद्धस्वाभावे चाययतीति रूपमित्यर्थः । स्फारयति, स्फोरयतीति । 'चिस्फुरो:-' इत्यात्त्वविकल्पः । अपुस्करत्, अपुस्फुरदिति । स्फुर् इ अ त् इति स्थिते द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतया स्फुरित्युकारवतो द्वित्वे ततश्चिस्फुरोर्णाविति उत्तरखण्डे आत्त्वविकल्पः । श्रात्त्वपक्षे उपधाहख इति भावः उभौ साभ्यासस्य । श्रनितेरित्यनुवर्तते । 'अन प्राणने' इति धातोरित्यर्थः । 'रषाभ्यां नो णः -' इत्यधिकृतम् । 'उपसर्गादसमासेऽपि -' इत्यत उपसर्गादित्यनुवर्तन, तदाह साभ्यासस्येत्यादिना । निमित्ते सतीति । उपसर्गस्थ रेफे सतीत्यर्थः । प्राणिणदिति । अन् इत् इति स्थिते 'अनितेः' इति णत्वस्यासिद्धत्वाद् नि इत्यस्य द्यनुकूलव्यापारविषया भवन्ति तान्मृगांस्तादृग्व्यापारविषयान्करोतीत्यर्थः । ज्ञपादिश्चिञ् इति । तेन मित्त्वाद्ध्रस्व इति भावः । स्वादिगणस्थस्य तु मित्त्वं नेत्युदाहरति चापयतीत्यादि । अपुस्फुरदिति । द्वित्वे कर्तव्ये श्रजादेशस्य स्थानिवत्त्वान्निषेधाद्वा स्फुरित्युकारवतो द्वित्वम्, ततः 'चिस्फुरोणों' इति वा श्रात्वम् । उभौ सा । 'रषाभ्याम् -' इति सूत्रे न इति षष्ठ्यन्तं प्रथमाद्विवचनान्ततया विपरिराम्यत इत्याह उभौ नकाराविति । ननु साभ्यासस्येत्युक्त्या उभयोरपि भविष्यतीत्युभौ प्रहणं व्यर्थमिति चेत् । अत्राहुः - साहित्यमात्रं विवक्षितं न तुल्ययोग इत्यभ्युपगमे द्वयोर्युगपन्न सिध्येदित्युभौ प्रहणम् । न च तुल्ययोगविवक्षायां 'तेन सहेति १ क्वचिद् 'घातकः' इति पाठः ।