________________
प्रकरणम् ५३ ] बालमनोरमा-तत्त्वषोधिनीसहिता। [४४३ वाययति वा गाः पुरोवातः । गर्भ ग्राहयतीत्यर्थः । 'ऊदुपधाया गोहः' (सू २३६४ ) । गूड्यति । २६०४ दोषो णौ (६-४-६०) दुष इति सुवचम् । दुष्यतेरुपधाया ऊत्स्यात् । दूषयति । २६०५ वा चित्तविरागे । (६-४-६१) विरागोऽप्रीतता । चित्तं दूषयति, दोषयति वा कामः । 'मिता हस्वः' (सू २५६८ ) । भ्वादी उरादौ च मित उक्ताः । घटयति । 'जनीजष्-' । जनयति । जरयति । जणातेस्तु जारयति । 'रओौँ मृगरमणे नलोपो वक्रव्यः' (वा ४०६७)। मृगरमणामाखेटकम् । रजयति मृगान् । त्वादिति केचित् । वस्तुतस्तु व्येसो न प्रहणम् । तस्य प्रजनार्यकत्वाभावात् । तस्य णौ 'शाच्छासा-' इति पुगपवादयुग्विधानेन व्याययतीति रूपे विशेषाभावाचेति शब्देन्दुशेखरे प्रपश्चितम् । गर्भ ग्राहयतीति । पुरोवातकाले गावो गर्भ गृह्णन्तीति प्रसिद्धिः । अथ 'गुहू संवरणे' इत्यस्य गुणनिमित्ते अजादौ प्रत्यये परे उपधाया ऊत्त्वविधिं स्मारयति ऊदुपधाया गोह इति । गृहयतीति लघूपधगुणापवाद ऊत्त्वमिति भावः । दोषो णौ। ऊदुपधाया इत्यनुवर्तते । 'दुष वैकृत्ये' इति श्यन्विकरणः । तस्य कृतलघूपधगुणस्य निर्देशः । ततश्च गुणविषयकमेवेदम् । दुष्यतेरुपधाया ऊत्स्यादिति । णाविति शेषः। दूषयतीति । लघूपधगुणापवाद ऊत् । दुषो गावित्येव सुवचम् । वा चित्तविरागे । ऊदुपधाया इति, दोषो णाविति चानुवर्तते । चित्तविरागे दुष उपधाया ऊद्वा स्याद् णाविति फलितम् । विरागपदस्य विवरणं अप्रीततेति। इच्छाविरह इत्यर्थः। चित्तमिति । चित्तं दुष्यति स्नानसंध्यावन्दनादिनित्यकर्मसु विरक्तं भवति । तत्प्रयोजयति काम इत्यर्थः । मितां ह्रस्व इति । णौ मितामुपधाया ह्रख इति प्राग्व्याख्यातमपि स्मारयति । जनीषिति । इदमपि व्याख्यातं स्मार्यते। जणातेस्त्विति । नाविकरणस्य अषित्त्वाद् न मित्त्वमिति भावः । राविति । णेः कित्त्वाभावाद् अनिदितामित्यप्राप्तौ वचनम् । मृगरमणपदस्य विवरणम् आखेटकमिति । मृगयेत्यर्थः । रजयति मृगानिति । 'रज रागे' शब्धिकरणः । 'रजेश्व' इति शपि नलोपः । रजन्ति मृगाः-ग्राह्या भवन्ति । तान् मृगान् तादृग्व्यापारविषइति न प्रवर्तते । अनेकार्थत्वाच्च धातूनां व्ययतरपि प्रजनोऽर्थ इति। दोषो णौ। दुष वैकृत्ये दिवादिः । गौ किम् , दोषः । चित्तमिति । चिती संज्ञान इत्यस्मात् क्तः । दूषयति, दोषयति वेति । चित्तं दुष्यति स्नानसंध्यादौ विरक्तं भवति, तत्प्रयुक्त इत्यर्थः । ऋणातेस्त्विति । अषित्त्वादस्य मित्वं नेति भावः । आखेटकमिति । मृगयेत्यर्थः । रजयतीति । रजन्ति मृगाः, प्रहणमरणा