________________
४४२ ]
सिद्धान्तकौमुदी ।
[ चि
लौकिके । ( ६-१-४६ ) ऐहलौकिकेऽर्थे विद्यमानस्य सिध्यतेरेच आवं स्यारणौ । श्रन्नं साधयति । निष्पादयतीत्यर्थः । अपारलौकिकं किम्-तापसः सिध्यति, तत्त्वं निश्चिनोति । तं प्रेरयति सेधयति तापसं तपः । २६०३ प्रजने वीयतेः । ( ६-१-५५ ) अस्यैव खं वा स्याण्णौ प्रजनेऽर्थे । वापयति,
गप् इ त् स्थिते गप् इत्यस्य द्वित्वे हलादिशेषे अभ्यास हस्ते सन्वत्त्वादित्त्वे दीर्घे अभ्यासचुत्वे रूपम् । न च द्वित्वे कार्ये 'गावजादेशो न ' इति द्वित्वात् प्राग् गाङादेशनिषेधः शङ्कयः, अभ्यासोत्तरखण्डे अवर्णसत्त्व एव तन्निषेधप्रवृत्तेर क्लत्वात् । द्वित्वे कार्ये गाङादेशस्य निषेधे सति गाङः पूर्वम् 'प्रजादेर्द्वितीयस्य' इति णिच एव द्विवे सति प्रक्रियायां परिनिष्ठिते वा नातोरुत्तरखण्डे अवर्णाभावादिति भावः । अध्यापि पदिति । गाङभावे 'क्रीड्जीनां गौ' इत्यात्त्वे पुकि अधि आप् इ त् इति स्थिते, पि इत्यस्य द्वित्वे रूपमिति भावः । सिध्यतेरपारलौकिक । 'आदेच उपदेशे-' इत्यस्मादादेच इति 'क्रीङ्जीनाम् -' इत्यस्मारणाविति चानुवर्तते, तदाह ऐहलौकिके इत्यादि । श्रन्नमिति । तन्निष्पादनं तृप्त्यर्थत्वादेह लौकिकमिति भावः । तत्त्वमिति । श्रात्मखरूपमित्यर्थः । सेधयति तापसं तप इति । तत्त्वं निश्चाययतीत्यर्थः । श्रात्मतत्त्वनिश्चय आमुष्मिकफलक इति भावः । प्रजने वीयतेः । ‘आदेच उपदेशे-' इत्यस्मादादेच इति 'चिस्फुरो:-' इत्यतो खाविति 'विभाषा लीयतेः ' इत्यतो विभाषेति चानुवर्तते, तदाह श्रस्यैच इत्यादि । वीयतेरिति न श्यना निर्देशः, 'वी गतिप्रजनस्थानार्जनोपार्जनेषु' इत्यस्य लुग्विकरण-थत्वात् । किंतु यका निर्देशोऽयम् ॥ तेन व्येनोऽपि ग्रहणम्, तस्यापि संप्रसारणे वीधातुना तुल्य
वेत्युक्तत्वात् । इह तु गाङः पूर्वं सति हि द्वित्वे 'अजादेर्द्वितीयस्य' इति णिच एव द्वित्वं भवेत्ततश्चङ्परणिज्निमितो गाङ् ततश्च प्रक्रियायां परिनिष्ठित वा अवर्णवदुत्तरखण्डं दुर्लभं कीर्तयति साम्यादिति नोक्तशङ्कावकाशः । श्रध्यापिपदिति । पशब्दस्यात्र द्वित्वम् । सिध्यतेरपार | श्यना निर्देशाद्भौवादिकस्याग्रहणम् । तत्त्वं निश्चिनोतीति । तत्त्वनिश्चयश्रात्मविषयकः स च परलोके उपयुज्यते । प्रजने । वीयतेरिति वी गतिप्रजनादावादादिकस्य यका निर्देशः । अत्र केचिदुत्प्रेक्षयन्ति -- वीतेरिति वक्तव्ये यका निर्देशाद्येोऽपि ग्रहणम् । तस्यापि यदि संप्रसारणे वी - धातुना समानरूपत्वात् । अतो द्वयोरपि प्रजनेऽर्थे त्वं वा स्यात् । तत्रत्वे तदभावे च यद्यपि व्येञो व्याययतीति रूपं तुल्यं 'शाच्छासा -' इति पुकोऽपवादतया युग्विधानात् तथापि णिजन्तात्किपि व्याः व्यौ व्याः । श्रात्वाभावपक्षे व्यैः व्यायौ व्याय इत्यस्ति विशेषः । विभाषाविधानसामर्थ्यात्पक्षेऽपि 'श्रादेच उपदेशेऽशिति'