________________
प्रकरणम् ५३ | बालमनोरमा-तत्त्वबोधिनीसहिता। (४४१ शता इति व्याख्येयम् । २५६७ स्फायो वः (७-३-४१) णौ । स्फावयति । २५६८ शदेरगती तः । (७-३-४२) शदेो तोऽन्तादेशः स्यान्न तु गती। शातयति । गतौ र गाः शादयति गोविन्दः । गमयतीत्यर्थः । २५६६ रुहः पोऽन्यतरस्याम् । (७-३-४३) णौ । रोपयति, रोहयति । २६०० क्रीजीनांणी '६-१-४८) एषामेच प्रात्वं स्यारणौ । क्रापयति । जापयति । अध्यापयति । २६०१ णौ च संश्चङो। (२-४-५१) सन्परे चङ्परे च णौ इडो गाङ् वा स्यात् । अध्यजीगपत् । अध्यापिपत् । २६०२ सिध्यतेरपार. विस्मयते । तं सिंह चारिता मनुष्यवाक् प्रयोजयति विस्मापयते मनुष्यवाग राजानम् । अत्र मनुष्यवाक् योजककीं। राजा तु प्रयोज्यकर्तेति स्थितिः । अत्र स्मयस्य प्रयोजककर्तृभूतमनु' यवाङ्मूलकत्वादात्त्वे पुक् । मूले प्रयोज्यकर्तीत्येव पाठः । प्रयोजककीत्यर्थः, प्रयोज्यः कर्ता यस्याः सा प्रयोज्यकीं इति बहुव्रीह्याश्रयणात् । प्रयोजककीत्येव पठः सुगमः । तां विस्मापयमानां प्रयोजककी मनुष्यवाचं प्रयोजयति सिंहः विस्माप पति । स्मापि इति ण्यन्ताद् णौ प्रथमणेर्लोपे स्मापि इत्यस्मात् शतप्रत्यये शपि णे पुणे अयादेशे विस्मापयन्निति भवतीत्यभिप्रेत्याह तया सिंह इति । प्रयोजककत रे तृतीया। आत्मनेपदं भीस्मिप्रकृतिकर यन्तादेव, नतु ण्यन्तप्रकृ. तिकण्यन्तादिति भागः । स्फायो वः । णाविति शेषपूरणम् । 'अर्तिह्री-' इत्यतस्तदनुवृत्तेरिति भावः । शदेरगतौ तः। 'अर्तिही-' इत्यतो णावित्यनुवृत्तिं मत्वाह शदे
विति । तोऽनादेश इति । तकार इत्यर्थः। अकार उच्चारणार्थः । रुहः पो। णाविति शेषपूरणम् । क्रीजीनां णौ। 'डु की द्रव्यविनिमय, इङ् अध्ययने, जि जये' एषां द्वन्द्वः । एच आत्त्वमिति । 'आदेच उपदेश-' इत्यतस्तदनुवृत्तेरिति भावः । क्रापयति । जापयतीति । आत्त्वे पुक् । लुङि अचिक्रपत् , अजीजपत् । अध्यापयतीति इङ आत्त्वे पुकि रूपम् । अधि इ इ अत् इति स्थिते । णौ च संश्चङोः । विषयसप्तमीयमित्याकरे स्पष्टम् । णौ विवक्षिते इति लभ्यते । 'इङश्च' इत्यत इङ इति 'गाङ् लिटि' इत्यतो गामिति 'विभाषा लुङ्लुकोः' इत्यतो विभाषेति चानुवर्तते, तदाह सन्परे चपरे चेत्यादि । सन्परे चपरे च णौ विवक्षित इत्यर्थः । अध्यजीगपदिति । णौ इङो गाडादेशे पुकि उपधाह्रखे अधि च प्रथमणिचि हेतुर्म तुष्यवागिति आत्वपुकावुपपन्नौ । क्रीजीनाम् । डुक्रीन् द्रव्यविनिमये । इङ् अध्ययने । जि जये। अचिक्रपत् । अजीजपत् । अध्यजीगपदिति । नात्र णिज्निमित्तस्य गाङो द्वित्वे कर्तव्ये स्थानिवद्भावो निषेधो वा शङ्कपः, यत्राभ्यासीत्तरखण्डे आद्योऽजवर्णोऽस्ति तत्रैव स्थानिवद्भावो निषेधो