________________
३४० ] सिद्धान्तकौमुदी।
[णिचस्मयतेरेचो नित्यमात्वं स्यारणौ हेतोः स्मये । जटिलो विस्मापयते । हेतोश्चेद्भय. स्मयाविरयुक्तर्नेह-कुञ्जिकयैनं भाययति, विस्माययति । कथं तर्हि 'विस्माप. यन्विस्मितमात्मवृत्तौ' इति । 'मनुष्यवाचा' इति करणादेव हि तत्र स्मयः । भन्यथा शानजपि स्यात् । सत्यम् । विस्माययन् इत्येव पाठ इनि सांप्रदायिकाः । यद्वा मनुष्यवाक्प्रयोज्यकी विस्मापयते, तया सिंहो विस्मापयामेति एयन्तारणौ स्मयतेः। 'आदेच उपदेशे-' इत्यत एच इति आदिति चानुवाते । 'चिस्फुरो:-' इत्यतो णाविति “बिभेतेहेतुभये' इत्यतो हेतुभये इति च । तत्र सयग्रहणं स्मयस्याप्युपलक्षणम् , अत्र तु स्मय एव विवक्षितः, स्मयतेीत्यर्थकत्वासंभवात् , तदाह स्मयतेरेच इत्यादि । 'विभाषा लीयतेः' इत्यतो विभाषानुवृत्तिनिवृत्तये नित्यग्रहणम् । अथ 'विभेतेर्हेतुभये' इति 'नित्यं स्मयतेः' इति च अत्त्वविधौ ‘भीस्म्योहेतुभये' इति आत्मनेपदविधौ च हेतुग्रहणस्य प्रयोजनमाह हेतोश्चेद् भयस्मयावित्युक्तेर्नेहेति । कुञ्चिकयैनमिति । केशबन्धविशेषः कुच्चिका । तस्याश्च करणतया प्रयोजककर्तृत्वाभावाद् अात्त्वं षुक् च नेति भावः । श्राक्षिपति कथमिति। रघुवंशकाव्ये
तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम ।
विस्मापयन् विस्मितमात्मवृत्तौ सिंहोरुसत्वं निजगाद सिंहः ॥ इति श्लोके विस्मापयन्निति कथमित्यक्षेपः । प्रयोजका दयाभावेन अात्त्वपुगनुपपत्तेरिति भावः। ननु मनुष्यवागेव तत्र प्रयोजिकेत्यत आह मनुष्येति । मनुष्यवाचेति तृतीयान्तगम्यकरणाद् मनुष्यवागात्मकादेव हि तत्र स्मयः। ननु करणभूतापि मनुष्यवाक् प्रयोजिका कुतो नेत्यत आह अन्यथेति । मनुष्यवाचः स्मयप्रयोजकत्वमभ्युपगम्य श्रात्त्वाश्रयणे 'भीस्म्योहेतुभये' इत्यात्मनेपदमपि स्यादित्यर्थः । स्मयोऽत्र प्रयोजकमूलको नेति युक्तमेव । किन्त्वात्त्वपुगाक्षेपो न युज्यते इत्यर्धाङ्गीकारेण परिहरति सत्यमिति । विस्माययन्नित्येवेति । णौ पायादेशे स्मायि इत्यस्माल्लटः शतरि शपि णेगुणे अयादेशे विस्माययन्नि येव कालिदासो महाकविः प्रायुक्त । विस्मापयन्निति पकारपाठस्तु लेखकप्रमादकृत इति भावः। यद्वेति । राजा दिलीपो ईकारान्तस्येति। तेन श्रात्वपक्षे भाययते इत्येव न त्वत्र घुगित्यर्थः । करणादेव हीति । तथा च करणात् स्मये आत्वाभावेन पुग्दुर्लभ इति भावः । प्रयोज्यकर्तीति । यद्यपि प्रथमणिजथे प्रति मनुष्यवागेव प्रयोजिका अतएव त्वं प्रवृत्तम् , तथापि द्वितीयणिजभिप्रायेणेदमुक्तमिति मनोरमायाम् । केचितु प्रयोज्यस्य कीं प्रयोजककीति यावदिति प्रथमणिजभिप्रायेणैवेदं सुयोजमित्याहुः । ण्यन्तारणाविति । राजा विसायते तं मनुष्यवाग्विस्मापयते तया सिंहो विम्मापयन्नित्यर्थः। एवं