________________
प्रकरणम् ५३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४३७ अचिकीर्तत् । अवीवृतत् , अववर्तत् । अमीमृजत् , अममार्जत् । 'पातेौँ लुगवक्तव्यः (वा ४५२०)। पुकोऽपवादः । पालयति । २५६० वो विधूनने जुक् । (७-३-३८) वातेर्जुस्याएणौ कम्पेऽर्थे । वाजयति । कम्पे किम्केशान्वापयति । 'विभाषा लीयतेः' (सू २१०१)। २५६१ लीलोर्नुग्लुचुत्व सम्वत्त्वाद् इत्त्वे तस्य दीर्घ रूपम् । अचिकीर्तदिति । कृत् इ अ त् इति स्थिते 'उर्ऋत् इत्युपधाया ऋत्त्वाभावपक्षे उपधायाश्चेति इत्त्वे रपरत्वे कि इत्यस्य द्वित्वे उत्तरखण्डे उपधायां चेति दीर्घ रूपम् । अवीवृतदिति । 'वृतु वर्तने । णिचि लघूपधगुणं बाधित्वा उर्ऋत् । चडि वृत् इत्यस्य द्वित्वे उरदत्त्वे सन्वत्त्वाद् इत्त्वं दीर्घश्चेति भावः । अववर्तदिति । ऋत्त्वाभावपक्षे वृत् इत्यस्य द्वित्वे उरदत्त्वे उत्तरखण्डस्य लघूपधगुणे रूपम् । लघुपरकत्वाभावान्न सन्वत्त्वदीपर्यो । अमीमृजदिति । उपधाया ऋत्त्वपक्षे रूपम् । अममार्जदिति । उपधाया ऋत्त्वाभावपक्षे द्वित्वे उरदत्त्वे उत्तरखण्डे 'मृजेवृद्धिः' इति वृद्धौ रपरत्वे रूपम् । लघुपरत्वाभावान्न सन्वत्त्वम् । पाते? लुगिति । लुगागम इत्यर्थः। पुकोऽपवाद इति । श्रादन्तलक्षणपुकोऽपवाद इत्यर्थः । यद्यपि 'पाल रक्षणे' इति धातोरेव सिद्धम् , तथापि पुको निवृत्तिः फलम् । वो विधूनने । 'ओ वै शोषणे' इति धातोः कृतात्वस्य व इति षष्ठयन्तम् । 'अर्तिही-' इत्यतो णावित्यनुवर्तते, तदाह वातेरित्यादि । पुकोऽपवादो जुक् । केशान्वापयतीति । सुगन्धीकरोतीत्यर्थः । अत्र वैधातोः पुगेव । वाधातोस्त्विह न ग्रहणम् , लुग्विकरणत्वात् । केचित्तु वातेरेवात्र ग्रहणम् , नतु वेञः, नापि वै इत्यस्य, लाक्षणिकत्वात् सानुबन्धकत्वाच्चेत्याहुः । स्थपत् । लटि तास्थापयतीति । 'उर्ऋत्' । चुरादौ व्याख्यातम् । अचिकीर्तदिति । ऋदादेशाभावपक्षे 'उपधायाश्च' इतीत्वे रपरत्वम् 'उपधायां च' इति दीर्घः । पुकोऽपवाद इति । आदन्तत्वात्पुकः प्राप्तिः । एवं च लुगागमस्य पुनिवृत्तिरेव फलम्। पालयतीति रूपस्य पाल रक्षणे इति धातुनापि सिद्धेरिति भावः । वो विधू । लुग्विकरणाऽलुग्विकरणपरिभाषया श्रोवै शोषण इत्यस्यैव प्रहणम्, न तु वा गतिगन्धनयोरित्यस्य । लक्षणप्रतिपदोक्तपरिभाषा त्वस्मिन्प्रकरणे न प्रवर्तते इत्युक्तं प्राक् । ओवै शोषणे इत्यस्य रूपमिति वदन् वामनोऽप्यत्रानुकूलः । वज गताविति धातुना वाजयतीति रूपे सिद्धे जुगागमस्य पुनिवृत्तिरेवेहापि फलम् । वातेरिति । वायतेरिति वक्तुं युक्तम् । प्रात्वविधायकसूत्रं स्मारयति विभाषा लीयतेरिति । लीयतेरिति यका निर्देशो न तु श्यना। अन्यथा विभाषा लीङ इत्येवावक्ष्यत् । तेन लीलीडोरुभयोरप्यात्वं भवति । लीलो। ली श्लेषणे दिवादिः।