________________
४३४ ]
सिद्धान्तकौमुदी ।
[ णिच्
"
3
सामर्थ्यादत्र लघोर्न दीर्घः । २५८३ विभाषा वेष्टिचेष्ट्योः । ( ७-४-६६ ) अभ्यासस्यात्वं वा स्याच्चङ्परे णौ । श्रववेष्टत् श्रविवेष्टत् । श्रचचेष्टत्, श्रचिचेष्टत् । 'भ्राजभास -' ( सू २५६५ ) इत्यादिना वोपधाह्रस्वः । श्रविभ्राजत् श्रवभ्राजत् । 'काय्यादीनां वेति वक्रव्यम् ' ( वा ४६१३ ) । ययन्ताः करा रणभण श्रणलुपहेठाः कायादयः षड् भाष्ये उक्ताः । ह्वायिवाणिलोठिलापयश्चत्वारोऽधिका न्यासे । चाणिलोटी इत्यप्यन्यत्र । इत्थं द्वादश । श्रचीकरणत् श्रचकारणत् । २५८४ अददरदिति । दृ विदारणे इत्यस्य रूपम् । अत्रापि 'सभ्यतः' इत्यस्थापवादः त्वम् । 'दीर्घो लघोः' इति दीर्घमाशङ्कयाह तपरत्वसामर्थ्यादिति । अतत्वरत् । अपप्रथत् । श्रमम्रदत् । अतस्तरत् । अपस्पशत् । विभाषा वेष्टिचेष्ट्योः । 'अत्र लोपः -' इत्यस्मादभ्यासस्येत्यनुवर्तते । 'तू स्मृदुत्वर-' इत्यतः अदिति 'सन्वल्लघुनि -' इत्यतः चङ्परे इति । चङ् परो यस्मादिति बहुव्रीहिः, णावित्यार्थिकम्, तदाह अभ्यासस्यात्त्वमिति । अबिभ्रजदिति । उपधाहस्वपक्षे लघुपरत्वात् सम्वत्त्वादभ्यासस्य इत्त्वम् । 'दीर्घो लघोः' इति तु न, संयोगपरत्वादलघुत्वात् । काण्यादीनां वेति । 'णौ चङ्युपधायाः -' इति ह्रस्व इति शेषः । एयन्ताः करणेति । 'कण निमीलने, रण शब्दे, भण शब्दे श्रण दाने, लुप छेदने, हेठ विद्याधायाम्' इति षड् धातवो एयन्ताः काण्यादयो भाष्ये पठित। इत्यर्थः । ह्रायीति । 'ह्वेञ् स्पर्धायां शब्दे च' आवे युकि च निर्देशः, 'वण शब्दे' दन्त्योष्ठ्यादिः, 'लुठ प्रतीघाते' टवर्गद्वितीयोपधः, 'लप व्यक्तायां वाचि' इति चत्वारो रायन्ता भाष्योक्लेभ्योऽधिका न्यासग्रन्थे पठिता इत्यर्थः । चाणिलोटी इति । 'चण दाने ' तालव्यादिः । ‘लुट स्तेये' टवर्गप्रथमान्तो भ्वादिः । चुरादौ भाषार्थकोऽपि । एतावपि रायन्तौ द्वौ भाष्यन्यासप्रन्थाभ्यामन्यत्र क्वचिद् ग्रन्थे पठितौ इत्यर्थः । इत्थं द्वादशेति । अनेन मतभेदेन काण्यादयो द्वादशेत्यर्थः । अचीकरणदिति । उपधाहस्वपक्षे लघुपरत्वात् सन्वत्त्वदीर्घौ च । अचकारादिति । उपधाहस्वाभावपक्षे रूपम् । अरीरात, अरराणत् । श्रबीभरणत्, अबभाणत् । अशिश्रणत्, श यि-' इत्यत्र लभेरेवानुवृत्तिर्यथा स्यादिति । काण्यादीनामिति । कण निमीलने । रण शब्दे । भण शब्दे । श्रण दाने । लुप्लु छेदने । हि विबाधायाम् । षद् । ञ् स्पर्धायां शब्दे च । वण शब्दे । लुट प्रतिघाते । लुप्लु छेदने । लोपीति णिजन्तनिर्देशः । लापयति इति पाठान्तरे लप व्यक्तायां वाचि । केचित्तु लपहेठ इति पठन्ति । न्यासे चत्वारः । श्रण दाने । लुठ स्तेये । भ्वादि: । चुरादौ दण्डकपाठे भाषार्थकोऽपि । श्ररीरणत् श्ररराणत् । श्रबीभणत्, अबभागत् । अशिश्रणत्,
1
"
१ धातु पाठे तु 'ठ' इति दृश्यते ।