________________
प्रकरणम् ५३ ] बालमनोरमा-तत्वबोधिनीसहिता। [४३३ अदिद्रवत् । २५८१ र भेरशब्लिटोः। (७-१-६३) रभेनुम्स्यादचि न तु शग्लिटोः । २५८२ लभेश्च । (७-१-६४) अररम्भत् । अबलम्भत् । 'हेरचङि' (सू २५३१ ) इति सूत्रे प्रचहि इत्युक्तः कुत्वं न। अजीहयत् । 'मत्स्मृदृत्वरप्रथम्रदस्तृस्पशाम्' (स २५६६)। असस्मरत् । भददरत् । तपरस्व. प्रकृते आदिभूनादचः परत्वाभावान दकारद्वित्वनिषेध इत्यर्थः । अदिद्रपदिति पाठे द्राधातोणिचि पुके द्रापि इत्यस्माद्रूपम् । ननु लावस्थायामडिति पक्षे अचः परत्वमस्त्येवेति चेत् , , 'न न्द्रा:-' इत्यत्र 'लिटि धातो:-' इत्यतो धातोरित्यनुवर्त्य धातुसंज्ञाकालिकादादेरच परा नदराः द्विनेंति व्याख्यानादित्याहुः । रभेरशब्लिटोः । 'इदितो नुम्धातोः' इत्यतो नुमिति 'रधिजभोरचि' इत्यतः अचीति चानुवर्तते, तदाह रभेर्नुमित्यादि । लभेश्च । लभेरपि नुम् स्याद् अचि, न तु शक्लिटोरित्यर्थस्य स्पष्टत्वादनुक्तिः। अररम्भदिति । नुमि कृते संयोगपरत्वेन अकारस्य लवुत्वाभावान्न सन्वत्त्वमिति भावः । 'हि गतौ वृद्धौ च' इत्यस्माच्चङि अजीहयदि यत्र 'हेरचङि' इति हकारस्य कुत्वं नेत्याह हेरचङीति । 'अत् स्मृदृत्वर-' इति सूत्रं चुरादौ 'प्रथ प्रख्याने' इंति धातौ व्याख्यातम् । असस्मरदिति । अत्र 'सन्यतः' इतीत्त्वे प्राप्त अत्त्वम् । अत एव ज्ञापकादनेकहल्व्यवधानेऽपि लघुपरत्वमित्युक्तं प्राक् । संयोगपरत्वेन लघुत्वाभावानाभ्यासदीर्घः । मटि कृतेऽपि धातुसंज्ञाप्रवृत्तिकाले अजादित्वाभावान्नोक्तदोषः । नित्यं द्वितीयस्यैकाचो ये नदरास्तेषामेव निषेधात् । न चैवं नित्यं द्वितीयस्येति व्याख्ययैव इष्टसिद्धावजादेरित्यस्यात्रानुवृत्तिर्मास्त्विति वाच्यम्, इन्दिदीयिषतीत्यत्र दकारस्यापि द्वित्वनिषेधापत्तेः । अजादेरित्युक्तौ त्वादिभूतादचः परत्वं दकारस्य नेति सिद्धमिष्टम् । न च अजादेरित्युक्तावपि चन्दिद्रीयिषतीत्यत्र दोषः स्यादेव, आद्यवयवस्य हल्त्वानकारस्य द्वित्वनिषेधाप्रसङ्गादिति वाच्यम्, अजादेरिति कर्मधारयात् पञ्चमीत्युक्तत्वात् । इह च एकदेशे स्वरितत्वं प्रतिज्ञाय अच इत्येवानुवयताम् । अथवा श्रादेरित्यस्याप्यनुवर्तनमस्तु तस्य नावयवपरत्वम् , किंतु पूर्ववर्तिमात्रपरत्वं शब्दाधिकाराश्रयाणादिति ज्ञेयम। नन्वेवमुत्तरार्थतया द्वितीयस्येति प्रहणस्य सार्थकत्वे स्थिते द्वितीयस्येति न वक्तव्यमिति भाष्यं विरुध्येतेति चेत् । मैवम् । यस्मिन्सूत्रे पठितं तत्र मास्त्विति तदाशयात् । न च अजादेरित्येतावत्युक्ते पस्य कस्यचिदेकाचो द्वित्वं स्यादिति वाच्यम् , प्रथमस्यैकाचः पूर्वयौव सिद्धः पुनरारम्भो द्वितीयस्य द्वित्वार्थमिति सुवचत्वात् । रभेरशब्लिटोः। 'रधिजभोः-' इत्यतोऽचीति 'इदितः-' इत्यतो नुमिति चानुवर्तते। अचि किम्, प्रारब्धम् । अशब्लिटोः किम्, रभते, रेभे। लभेश्च । योगविभागः 'पालो