________________
४३२ ] सिद्धान्तकौमुदी।
[णिच्पयोः' (सू २८७७ ) इति सूत्रे निपातनाइस्य बः । स चान्तरङ्गोऽपि द्विस्वविषये 'न न्द्राः-' (सू २४४६) इति निषेधाज्जिशब्दस्य द्विस्वे कृते प्रवर्तते । न तु ततः प्राक्, दकारोच्चारणसामर्थ्यात् । मौजिजत् । प्रजादेरिस्येव । नेहरित्यत आह स चेति । ननु दु गतौ द्रावयति चलि दु इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्धयावादेशयोः उपधाह्रखे 'प्रवति शृणोति-' इत्यभ्यासस्य इत्त्वे अदिद्रवदिति इष्यते। तन्नोपपद्यते, 'न न्द्रा:-' इति दकारस्य द्वित्वनिषेधादित्यत आह अजादेरित्येवेति । 'न न्द्रा:-' इत्यत्र अजादेरित्यनुवर्तत एवेत्यर्थः । प्रादिभूतादच इति व्याख्यातं प्राक् । ततश्च आदिभूतादचः परा नदरा द्विर्न भवन्तीति फलितम् । नेहेति । भाष्यकारादयस्तूपध्मानीयोपधपाठे उब्जिजिषतीति रूपं न सिध्येत् । यदि 'पूर्वत्रासिद्धीयमद्विवेचने' इत्याश्रित्य बकारोत्तरं द्वित्वं क्रियते, यदि वा अस्यानित्यतामाश्रित्य बकारात्पूर्वमेवोपध्मानीयस्य द्वित्वमुभयथापि इष्टरूपासिद्धिः, आये उबिब्जिषति, द्वितीये तूपध्मानीयस्याच्वात्तदादेः 'अजादेर्द्वितीयस्य' इति द्वित्वे हलादिःशेष द्वितीयोपध्मानीयस्य जश्त्वेन बकारे पश्चात्प्रथमस्यापि तथैव बकारे उब्जिषतीत्यापत्तेः । ततश्चेष्टसिद्धये दकारोपधोऽयं स्वीकार्यः । भुजन्युब्जाविति निपातनादुपधादकारस्य बो भवतीति वाक्यं कल्प्यते, तच्च 'स्तोः श्चुना श्चुः' इत्यस्याग्रे। तदयमर्थः-चुना योगे उद्जेदकारस्य बकार इति । 'अभ्युद्गः समुद्गः' इत्यत्र तु उब्जिता उब्जितुमित्यत्रेव चवर्गयोगो नास्तीति न बकारः। दकारोपधे चास्मिन्खीकृते 'न न्द्राः-' इति निषेधाज्जिशब्दस्य द्वित्वे ततो बकारे च उब्जिजिषतीति सिध्यति रूपम् । न च 'पूर्वत्रासिद्धीयमद्विवचने' इति बकारोत्तरं द्विवंचने सति स्यादेवानिष्टमिति वाच्यम्, द्विर्वचने हि त्रैपादिकं सिद्धं न तु तनिषेधेऽपि । तथा च निषेधे त्रिपादीस्थस्यासिद्धत्वात् 'न न्द्राः-' इति निषेधः प्रवर्तते । यद्रा तादृशवाक्यमिह न कल्प्यते, किं तु 'भुजन्युब्जौ-' इति निपातनेन दस्य ब इति । न चैवं बकारसहितस्य द्वित्वप्रसाः, धातौ दकारोच्चारणसामर्थ्यात् । न चाभ्युद्ग इत्यादावपि बकारश्रवणप्रसमः, अकुत्वविषय एव बकारनिपातनाभ्युपगमात् । यद्वा अभ्युद् इत्यादि रूपं द्वयुपसर्गाद्गमर्डप्रत्यये ज्ञेयम् । उद्जेस्तु घनि अनभिधानात् प्रयोगाभाव इति वदन्ति । तदेतद्भाष्यादिमतमभिप्रेत्याह उपदेश दकारोपध इत्यादि । अजादेरित्ये. वेति । 'न न्द्राः-' इत्यत्र अजादेरित्यनुवर्तते, तेन आदिभूतादचः परा एव नदरा द्वि!च्यन्ते, नान्ये इत्यर्थः । ननु लावस्थायामेव अडिति भाष्यकारोक्तपक्षे अदिदपदित्यत्र अजादित्वमस्त्येव, न्याय्यश्च प्रथममट, परत्वादन्तरङ्गत्वाचेति चेत्। अत्राहुःद्वितीयस्येत्यप्यत्रानुवर्तते तत्सामर्थ्याच नित्यं द्वितीयस्येति तदर्थः । तेन लावस्थाया.