________________
प्रकरणम् ५३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४३१ भवानिदिधत् । एजादावेधाती विधानान्न वृद्धिः, मा भवान्प्रेदिधत् । 'नन्द्राः-' (सू २४४६) इति नदराणां न द्वित्वम् । प्रौन्दिदत् । आड्डित् । मार्चिचत् । उज्ज आर्जवे । उपदेशे दकारोपधोऽयम् । 'भुजन्युब्जी पाण्युपताबहिरङ्गोऽप्युपधाह्रस्वो द्वित्वात् प्रागेवेति विज्ञायत इत्यर्थः । ननु आटिटत् आशिशत् इत्यत्र द्वित्वप्रवृत्त्यनन्तरमुपधाह्रस्वस्याभावेऽपि 'आटश्च' इति वृद्धौ टिटत् प्राशिशत् इति सिध्यत्येवेति किमनेन ज्ञापनेनेत्यत आह मा भवानिदिधदिति । एथ् इ अत् इति स्थिते पूर्व द्वित्वप्रवृत्तौ धि इत्यस्य द्वित्वे पश्चादेकारस्य ह्रस्वो न स्यात् । द्वित्वात्प्रागेव उपधाह्रस्वे तु इध् इ अत् इति स्थिते धि इत्यस्य द्वित्वे माङ्योगादा. डभावे इदिधदिति इष्टं सिध्यतीत्यर्थः। ननु मा भवान् प्रेदिधदित्यत्र प्र इदिधदिति स्थिते कृतेऽपि ह्रस्वे एकदेशविकृतन्यायेन एधधातुत्वाद् 'एत्येधत्यूठसु' इति वृद्धिः स्यादित्यत आह एजादावेधताविति । अवर्णादेजाद्योरेत्येधत्योरिति व्याख्यातत्वादिति भावः । औन्दिददिति । उन्द् इ अत् इति स्थिते दि इत्यस्य द्वित्वमिति भावः। श्राड्डिडदिति । अड्डधातुर्दोपधः । ष्टुत्वसंपन्नो डकारः । अड्डि अ त् इति स्थिते ष्टुत्वस्यासिद्धत्वेन दकारात्परस्य डि इत्यस्य द्वित्वमिति भावः । आर्चिचदिति । अर्च् इ अत् इति स्थिते रेफात् परस्य चि इत्यस्य द्वित्वमिति भावः । उब्ज आर्जव इति । ननु चढि ब्जि इत्यस्य द्वित्वे हलादिशेषे श्रौबिब्जदिति रूपं स्यात् । भौब्जिजदित्येव तु इष्यते, तत्राह उपदेशे दकारोपधोऽयमिति । ततश्च 'न न्द्रा:-' इति दकारस्य द्वित्वनिषेधाद् जि इत्यस्यैव द्वित्वमिति भावः । तर्हि दकारः कुतो न श्रूयत इत्यत आह भुजन्युब्जाविति । ननु द्वित्वात् प्रागन्तरगत्वाद् दकारस्य धकारादेशे सति 'न न्द्राः' इति निषेधस्य कथमिह प्रवृत्तिषेधार्थमृदित्करणं व्यर्थ स्यादतस्तदुक्तेऽर्थे ज्ञापकमेव । एजादावेधताविति । 'एयेधत्यूठसु' इति सूत्रे एजाद्योरेत्येधत्योरिति व्याख्यातत्वादिति भावः । न च मा भवान्प्रेदिधदित्यत्र 'णौ चङि-' इति हखे कृते नायमेधतिरिति वृद्धेरप्रवृत्तौ किमेधतेरेजादिविशेषणेनेति वाच्यम् , एकदेशविकृतस्यानन्यत्वात् । न चैवमपि 'अजादेद्वितीयस्य' इति घिशब्दस्थाने घिधिशब्दादेशे सति बनसोरिव प्रकृतिप्रत्ययविभागसंमोह इति वाच्यम् , 'द्विःप्रयोगो द्विर्वचनं पाष्ठम्' इति भाष्ये सिद्धान्तितत्वात् । अन्यथा इहैव प्रेदिधदित्यत्र णिलोपो न स्यात् । जिघांसतीत्यादौ सनः सकारेण विशिष्टस्य द्वित्वे कृते कुत्वं च न स्यादिति दिक् । उब्ज आर्जव इति । अयमुपध्मानीयोपध इति वार्तिककृतोत्रम् । तस्य 'झलां जश् झशि' इति जश्त्वेन वकारे कृते उब्जिता उब्जितुमिति रूपम् । एतच्चायोगवाहानां शर्यु पाठस्य फलम् ।