________________
४३० ] सिद्धान्तकौमुदी।
[णि२५८० स्तम्भुसिवुसहां चङि । (८-३-११६) उपसर्गनिमित्त एषां सस्य षो न स्याञ्चङि । अवातस्तम्भत् । पर्यसीषिवत् । न्यसीषहत् । पाटिटत् । प्राशिशत् । बहिरङ्गोऽप्युपधाहखो द्वित्वात्प्रागेव, प्रोणेर्ऋदित्करणाल्लिङ्गात् । मा वृद्धयायादेशाभ्यां प्रागेव वकारस्य संप्रसारणमुकार इति फलितम् । पूर्वरूपमिति । ततश्च शु इत्यस्य द्वित्वे उत्तरखण्डस्य णिचमाश्रित्य वृद्धयावादेशयोरुपधाह्रखे सन्वत्त्वविषयत्वादभ्यासदीर्घ फलितमाह अशुशवदिति । संसारणाभावपक्षे अशिश्वयदित्यत्र अभ्यासदीर्घमाशङ्कयाह अलघुत्वादिति । संयोगपरकत्वादिति भावः । श्रवपूर्वात्स्तम्भेय॑न्तादवष्टम्भयतीत्यादि । 'अवाच्चान्नम्बनाविदूर्ययोः' इति षत्वम् । चङि अवातस्तम्भदित्यत्र षत्वे प्राप्ते स्तम्भुसियु । 'उपसर्गनिमित्तस्य प्रतिषेधः' इति वार्तिकम् । न रपरसृपीत्यतो नेत्यनुवर्तते । 'महेः साडः सः' इत्यतः स इति षष्ठयन्तमनुवर्तते । मूर्धन्य इत्यधिकृतम् , तदाह उपसर्गनिमित्त इत्यादि । स्तम्भुः सौत्रो धातुः । 'षिवु तन्तुसन्ताने' 'षह मष्णे'। पर्यसीषिवत्, न्यसीषहदिति । 'परिनिविभ्यः सेव-' इत्युपसर्गनिमित्तं षत्वं न । अभ्यासनिमित्तं तु षत्वं भवत्येव । आटिटत्, आशिशत् इति श्राट् इ अत्, आश् इ अत् इति स्थिते ‘णौ चङि-' इत्युपधाह्रखात् प्रागन्तरणत्वात् 'चति' इति द्वित्वमाशङ्कयाह बहिरङ्गोऽपीति । उपधाह्रखः चपरण्यपक्षेत्वाद् बहिरङ्गः । द्वित्वं तु चङ्मात्रापेक्षत्वादन्तरङ्गम् । अथापि द्वित्वात् प्रागेव उपधाह्रख इत्यर्थः । कुत इत्यत आह ओणेरिति । 'श्रोण अपनयने' इति धातोः ऋदित्करणम् प्रोणिरादित्यत्र 'नाग्लोपि-' इति उपधाह्रस्वप्रतिषेधार्थम् । यदि तु उपधाहखात्प्रागेव अन्तरङ्गत्वाद् द्वित्वं स्यात् तदा श्रोण इ अत् इत्यत्र 'अजादेर्द्वितीयस्य' इति णि इत्यस्य णिचा सह द्वित्वे सति पश्चादोकारस्य चपरे णौ उपधात्वाभावादेव ह्रस्वस्याप्रसक्तत्वाद् ऋदित्करणं व्यर्थ स्यात् । द्वित्वात्प्रागेव उपधाह्रस्व इत्यभ्युपगमे तु ओण इ अत् इत्यस्यामवस्थायां प्राप्तस्य ह्रस्वस्य निषेधार्थमृदित्करणमर्थवत् । अतः इयं च परिभाषा 'लिट्यभ्यासस्योभयेषाम्' इत्यत्र वच्यादीनां प्रह्यादीनामनुवृत्त्यैोष्टसिद्धावुभयेषांग्रहणसामर्थ्याल्लभ्यते। अन्यथा वनश्चेत्यत्र हलादिःशेषे कृते वस्य संप्रसारणं स्यादित्याहुः। स्तम्भुसिवु । स्तम्भुः सौत्रः । षिवु तन्तुसंताने। षह मर्षणे । स्तन्भतेः 'स्तन्भेः' इत्यनेन प्राप्तिरन्ययोस्तु 'परिनिविभ्यः-' इत्यनेनेति विवेकः । आटिटत् । आशिशदिति । णिचा सह द्वित्वात्सन्वद्भावो नेति तद्विषये विहितो यो 'दीर्घो लघोः' इति दीर्घः स न प्रवर्तते । ऋदित्करणाल्लिङ्गादिति । यदि पूर्व द्विर्वचनं भवेत्तदा णिशब्दस्य द्वित्वे सत्युपधाह्रखस्याप्राप्तेस्तत्प्रति