________________
प्रकरणम् ५३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ४२६
चोरयति । 'णौ चङि -' ( सू २३१४ ) इति ह्रस्वः । 'दीर्घो लघोः ' ( सू २३१८ ) । न चाग्लोपिस्वाद् द्वयोरप्यसम्भवः, ण्याकृतिनिर्देशात् । अचूचुरत् । २५७६ णौ च संश्चङो । ( ६-१-३१ ) सम्परे चङ्परे च णौ श्वयतेः संप्रसारणं वा स्यात् । 'संप्रसारणं तदाश्रयं च कार्य बलवत्' ( प १२३ ) इति वचनात्संप्रसारणं पूर्वरूपम् । अशुशवत् । श्रलघुत्वान्न दीर्घः । अशिश्वयत् ।
अध ण्यन्ताण्णौ प्रथमस्य गेर्लोपे चोरि इत्यस्माल्लुङि चङि चोर् इ त् इति स्थित प्रक्रियां दर्शयति णौ चङीति ह्रस्व इति । ततो हेतुमण्णेर्लोपे चर् इत्यस्य द्वित्वे सन्वद्भावविषयत्वादाह दीर्घो लघोरिति । तथा च अचूचुरदिति सिद्धम् । ननु उपधाहन्वः अभ्यासदीर्घश्चेति द्वयमपि चङ्परे णौ विहितम् । तदुभयमप्यत्र प्रत्ययलक्षणमाश्रित्य प्रथमणिचमादाय न संभवति, तस्य द्वितीयणिचा व्यवहितत्वेन चङ्परकत्वाभावात् । नापि द्वितीयणिचमादाय तदुभयसंभवः, द्वितीयणिच्प्रकृतेः प्रथमण्यन्तस्य णिलोपमादाय अग्लोपित्वादित्याशङ्कय परिहरति न चेति । अग्लोपित्वाद् द्वयोरपि उपधाहखाभ्यासदीर्घयोरसंभवो न शङ्कप इत्यर्थः । कुत इत्यत आह ण्याकृतिनिर्देशादिति । चङ्परे णावित्यत्र णावित्यस्य चङ्परकणित्त्वजात्याश्रयैकानेकणिज्व्यक्तिपरकत्वं विवक्षितम् । तथा च णिद्वयस्य चढ्परकत्वाभावेऽपि णित्वस्य चङ्परकत्वमस्तीति हस्वदीर्घयोरस्ति प्रवृत्तिरिति भावः । अत्र जातिनिर्देशः प्रयुक्त इति शब्देन्दुशेखरे प्रपञ्चितम् । टु श्रश्वि गतिवृद्धयोः श्रस्माद्धेतुमराणौ वृद्धयायादेशयोः श्वायीत्यस्माद् लडादौ श्वाययतीति रूपम् । लुङि चङि अश्वि इ श्र तू इति स्थिते विशेषमाह णौ च संश्चङोः । 'विभाषा श्वः' इति सूत्रमनुवर्तते । 'व्यङः संप्रसारणम्' इत्यतः संप्रसारणमिति च, तदाह सन्पर इत्यादिना । नन्वन्तरङ्गत्वात् संप्रसारणात्पूर्व वृद्धयायादेशयोः कृतयोः पश्चात् संप्रसारणे पूर्वरूपे अशीशवदिति स्यात्, अशू शवदिति न स्यात् इत्यत श्राह संप्रसारणं तदाश्रयं च कार्य बलवदिति । इदं वचनं 'लिट्यभ्यासस्य -' इति सूत्रभाष्ये स्थितम् । एवं च अश्वि इ अत् इत्यत्र
•
त्वाद्वेत्यर्थः । असंभव इति । तथा च अचुचोरदित्येव रूपमिति भावः । ण्याकृति - निर्देशादिति । चङ्परे णावित्यत्र चङ्परे णित्वे इत्यर्थः । तेन द्विये सत्यपि णित्वं चङ्परमस्तीति हखदीर्घयोरस्ति संभव इति भावः । एतेन श्रवीवदद्वीणां परिवादकेनेत्यादो सन्वद्भावो व्याख्यातस्तत्रापीत्थमेव, पूर्वपक्षसिद्धान्तयोस्तुल्यत्वात् । णौ च । विभाषा श्वेरित्यनुवर्तते । संचेरिति णावित्यस्य विशेषणं 'ह्वः संप्र-' इत्यतः संप्रसारणमनुवर्तत एवेत्याह सन्परे चङ्पर इति । वचनादिति ।