________________
४२८] सिद्धान्तकौमुदी।
[णिच्'नाऽग्लोपि-' (सू २५७२) इति हस्वनिषेधः। अशशासत् । अदुढौकत् । प्रचीचकासत् । मतान्तरे अचचकासत् । अग्लोपि इति सुन्धातुप्रकरणे उदाहरिष्यते । एयन्तारिणचि पूर्वविप्रतिषेधादपवादत्वाद्वा वृद्धि बाधित्वा णिलोपः । पवर्गजकारयोरसंभवात् स्रवत्यादौ यणः सत्त्वेऽप्यव्यभिचारत् , तदाह अवर्णपरे धात्वक्षर इति । अक्षरशब्दो वर्णपरः । असिस्रवत् , असुस्रवदिति । द्विहल्व्यवधानेन लघुपरकत्वाभावान सन्वत्त्वमिति भावः । अशिश्रवत् , अशुश्रवत् । अदिद्रवत् , अदुदवत् । अपिप्रवत् , अपुप्रवत् । अपिप्लवत्, अपुलवत् । अचिच्यवत् , अचुच्यवत् । अथ शासुधातोरशशासदित्यत्राह नाग्लोपीति । अडुढौकदिति । ढोकृ गतावित्यस्य ऋदित्त्वादिति भावः। अचीचकासदिति । चकास दीप्तौ । ऋदित्त्वानोपधाह्रखः । चपरे णौ यदङ्गं तस्य योऽभ्यासो लघुपर इति पक्षे सन्वत्त्वम् अभ्यासदीर्घश्चेति भावः । मतान्तरे त्विति । अङ्गं यत्र द्विरुच्यते इति मते चङ्. परे णौ यल्लघु तत्परो योऽङ्गस्य अभ्यास इति मते चेत्यर्थः । अग्लोपीतीति । अग्लोपिन उपधाहखनिषेधे मा भवानूननदिति उदाहृतम् । अतितिरायदित्याद्युदाहरणान्तरं सुब्धातुनिरूपणे वक्ष्यते इत्यर्थः । ननु 'चुर स्तेये' इत्यस्मात्स्वार्थे णिचि उपधागुणे चोरि इति रूपम् । तस्माद्धेतुमण्णौ प्रथमस्य णे पे सति चोरि इत्येव हेतुमएण्यन्तम् । तस्माल्लटि तिपि शपि गुणे अयादेशे चोर तीत्येव रूपमिष्यते । तभोपपद्यते, हेतुमरणौ परे प्रथमस्य गेर्लोपं बाधित्वा परत्वाद् वृद्धौ आयादेशे चोराय् इ इत्यस्म'लटि चोराययतीत्यापत्तेरित्यत आह ण्यन्तारिणचीति । एयन्तारिणचि वृद्धिं बाधित्वा णिलोप इत्यन्वयः । कुत इत्यत आह पूर्वविप्रति
धादिति । 'एयल्लोपावियङ्यणगुणवृद्धिदीर्घभ्यः पूर्वविप्रतिषेधेन' इति वार्तिकेनेति भावः । अपवादत्वाद्वेति । 'कमु कान्तौ' इति धातौ द्विधा प्रपञ्चितत्वादिति भावः । न तु पुयण्जीति, पवर्गजकारयोरसंभवाद्यणः संभवेऽप्यव्यभिचारात्तदाह अवर्णपरे धात्वक्षरे इति । अक्षरशब्दोऽत्र वर्णपरः । अवर्णपरे किम्, शुश्रूषति । शृणो. त्यादेख्दाहरणं तु अशिश्रवत् , अशुश्रवत् । अदिद्रवत्, अदुइवत् । अपिप्रवत् , अपुप्रवत् । अचिच्यवत् , अचुच्यवत् । अडुढौकदिति । ढोकृ गतौ । चपरे णौ यदर्श तस्य योऽभ्यासो लघुपर इति पक्षाश्रयेणाह अचीचकासदिति । मतान्तर इति । 'अङ्गं यत्र द्विरुच्यते' इति मते चङपरे णौ यल्लघु तत्परो योऽनस्थाभ्यास इति मते चेत्यर्थः । सुब्धातुप्रकरण इति । अतितिरायत् । अससध्रायत् । अविविष्वदायत् । अदिदेवदायत् । इत्याद्युदाहरिष्यत इत्यर्थः । वृद्धिं बाधित्वेति । 'एयल्लोपाविय-' इत्यादिवचनारिणलोपाशप्रत्याख्यानपक्षेऽपवाद