________________
प्रकरणम् ५३] बालमनोरमा-तत्त्वबोधिनीसहिता [४२७ प्रोः पुयराज्यपरे । (७-४-८०) सनि परे यदङ्गं तदवयवाभ्यासोकारस्त्वं स्यास्पवर्गयएजकारेश्ववर्णपरेषु परतः । प्रवीभवत् । अपीपवत् । मू । अमीम. वत् । अयीयवत् । भरीरवत् । मलीलवत् । अजीजवत् । २५७८ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा । (७-४-८१) एषामन्या. सोकारस्य इवं वा स्यात्सन्यवर्णपरे धास्वक्षरे परे । असिस्नवत् , असुस्रवत् । त्वाद् अनुप्रयुज्यमानादपि नात्मनेपदमिति भावः । प्रोः पुयण् । उ इत्यस्य अोरिति षष्ठी। पुयरिज इति छेदः । पुश्च यण च ज चेति समाहारद्वन्द्वात्सप्तमी । श्रः परो यस्मादिति बहुव्रीहिः । 'सन्यतः' इत्यस्मात्सनीत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । 'अत्र लोपः-' इत्यस्मादभ्यासस्येति, 'भृशामित्' इत्यस्मादिदिति चानुवर्तते, तदाह सनि परे इत्यादिना । अबीभवदिति । भूइ अत् इति स्थिते द्वित्वे कार्थे णौ अच श्रादेशस्य निषेधाद् वृद्धयावादेशाभ्यां प्रागेव भू इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्धयावादेशयोः कृतयोरुपधाहते अभ्यासे अकाराभावेन 'सन्यतः' इत्यस्याप्रवृत्त्या सन्वत्त्वादनेन इत्त्वे दीर्घ इति भावः । अपीपवदिति । पूधातो रूपम् । मूङित्यस्माद्धातोरमीमवदिति रूपमित्यर्थः । अयीयवदिति । युधातो रूपम् । प्ररीरवदिति । रुधातो रूपम् । अलीलवदिति । लूञ्धातो रूपम् । अजीजवदिति । जुः सौत्रो धातुः जुचकम्येत्यत्र निर्दिष्टः । ननु भू भू इति द्वित्वोत्तरं वृद्धयावादेशयोः कृतयोः उपधाह्रखे तस्य स्थानिवत्त्वेन लघुपरत्वाभावात् सन्वत्त्वाप्रसक्त्या कथमिहाभ्यासोवर्णस्य इत्त्वमिति चेद् न, श्रारम्भसामर्थ्यादेव स्थानिवत्त्वाप्रवृत्तरित्यलम् । स्रवतिश्पृणोति । अपर इत्यनुवर्तते, न तु पुयरिज इति, तु णिजथः । पच देवदत्तेत्यत्र हि वक्कैव प्रेरकः । पाचयतीत्यादौ वक्तृभिभः, पाचयामीत्यादौ तु वक्तेति दिक् । श्रोः पुयणजि । पुयण्जीति समाहारद्वन्द्वात्सप्तम्येकवचनम् । अपर इति बहुव्रीहिः । 'अत्र लोपोऽभ्यासस्य' इत्यतः अभ्यासस्येत्यनुवर्तते। 'मृषामित्' इत्यत इग्रहणं 'सन्यतः' इत्यतः सनीति च । अस्येति तु अधिक्रियत एव, तदेतदभिप्रेत्याह सनि परे यदङ्गमित्यादि । अपरे किम् , बुभूषति । पवर्गयण्जीति किम् , ऊर्गुनविषति । अबीभवदित्यादि । भू सत्तायाम् । पूङ् पवने । मूङ् बन्धने। यु मिश्रणादौ । रु शब्दे। लूञ् छेदने । जु गती। सौत्रोऽयं धातुः 'जुचंक्रम्य-' इत्यत्र निर्दिष्टः । ननु भू भू इति द्वित्वोत्तरं वृष्यावादेशौ भवतस्ततः कृतस्य ‘णौ चङि-' इति हखस्य स्थानिवद्भावेन लघुपरत्वाभावात्सन्वद्भावाप्रवृत्त्याऽबीभवदित्यादावभ्यासोवर्णस्येत्वं दुर्लभमिति चेत् । अत्राहुःप्रारम्भसामर्थ्यादेव न स्थानिवत्त्वमिति । नवतिशृणोति। अपर इत्यनुवर्तते