________________
४२६ ] सिद्धान्तकौमुदी।
[णिच. प्रेषणादौ वाच्ये धातोणिस्यात् । भवन्तं प्रेरयति भारयति । 'णिचश्च' (सू २५६४) इति कर्तृगे फले प्रारमनेपदम् । भावयते । भानयांबभूव । २५७७ त्यर्थः । समानस्याधिकस्य च सख्याचार्यादेः प्रवर्तना अध्यषणा । अनुमतिः राजादेः संमतिः। ज्वरितस्य कषायपाने हितावबोधनेन प्रवर्तगा उपदेशः । हननादीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः। प्रयोजकनिष्ठप्रवर्तनायां णिजिति फलितम् । एते तु विशेषाः प्रकरणादिना अनगम्यन्ते । कुलालो घटं करोतीत्यत्र तु न णिच् प्रयोज्यप्रयोजकोभयसमभिव्याहार ए। तत्प्रवृत्तेरित्यन्यत्र विस्तरः। भवन्तमिति । देवदत्तो यज्वा भवति। तं प्रेरयति याजक इत्याद्यर्थे भूधात्वर्थस्य भवनस्य मुख्यकर्ता यज्वा, तस्य यज्वभवने प्रातयिता याजकादिः प्रयोजकः, तन्निष्ठायां प्रेरणायां भूधातोणिच् वृद्धयावादेशौ, वीति णिजन्तम् । तस्माद्भवमानुकूलव्यापारार्थकाद् लटि भावयतीति रूपम् । भवन्तं प्रेरयतीति फलितोऽर्थः । भावयांबभूवेति । कर्तृगामिन्यपि क्रियाफले भूधातोरनात्मनेपदिजकश्वेतनाचेतनसाधारण्येन विवक्षितः । स च क्वचित्सिद्धः क्वचिकलरूपः । देवदत्तः पाचयति गमयतीत्यादौ सिद्धः। भिक्षा वासयति संग्रामो वासय तीत्यादौ तु फलरूपः। प्रेषणादाविति । भृत्यादेनिकृष्टस्य प्रवर्तना प्रेषणा। प्राज्ञेत्यर्थः । श्रादिशब्देनाध्येषणानुमत्यादीनामुपादानम् । समानस्याधिकस्य वा ऋत्विगाचार्यादेः प्रवर्तना अध्येषणम्, प्रार्थनेत्यर्थः । अनुमतिस्तु राजादेः संमतिः, । विना यागादिक्रिया न निष्पद्यत इत्यनुमतिमात्रेण राजादिः प्रयोजकः । अनुमत्यादीत्यादिशब्देनात्रोपदेशानुग्रहयोरुपादानम् । ज्वरितः कषायं पिबेदित्युपदेशमात्रेण वैद्यादिः प्रयो. जकः ॥ यस्तु केनचिद्धन्तुमिष्टं पलायमानं निरुणद्धि सोऽपि हन्तुर तुग्राहकत्वेन प्रयो. जकः । सर्वेऽप्येते विशेषाः कथं णिच्प्रत्ययगम्या इति चेत् । अत्राहुः-सर्वानुगतं प्रवर्तनासामान्यं णिचोऽर्थः, विशेषास्त्वर्थप्रकरणादिगम्या इति । नन्वेवं णिचो लोडादीनां च पर्यायता स्यात्ततश्व इदानीं पृच्छतु भवानिति वकव्ये प्रच्छयतीति णिजपि प्रयुज्यतेति चेत् । मैवम् । कर्तुः प्रयोजको हि हेतुः प्रेषविषयो यः संबोध्यो देवदत्तादिः स तु नाद्यापि प्रश्नकर्तृत्वेनावधारितः । तथा च प्रयोज्यप्रवृत्त्युपहिता या प्रयोजकनिष्ठप्रवृत्तिः सा णिजर्थस्तदनुपहिता प्रयोजकप्रवृत्तिस्तु लोड ये इत्युभयो दः । उक्त च--'द्रव्यमात्रस्य तु प्रेषे पृच्छादेर्लोड् विधीयते। सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः' इति । अस्यार्थः-कर्तृत्वेनानवधारितस्य देवदत्तादेस्तु प्रैषे प्रच्छ ज्ञीप्सायामित्यादेर्लोड् भवति । प्रयोज्यप्रवृत्त्युपहितप्रवृत्त्याश्रयस्य प्रयुक्तिस्तु यदा सा णिचो विषय इति । कि च प्रयोक्तृनिष्ठा प्रयुक्तिर्लोडर्थः, प्रयोक्त्रप्रयोक्तृकर्तृका