________________
प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [ ४२५
अथ तिङन्ते णिच्प्रकरणम् ॥५३॥
२५७५ तत्प्रयोजको हेतुश्च । (१-४-५५) कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् । २५७६ हेतुमति च । (३-१-२६) प्रयोजकन्यापारे भाण्ड-' इति णिविधिरावश्यक इत्यत आह णिजन्तादेव बहुलवचनादिति । 'बहुमेतन्निदर्शनम्' इति बहुलग्रहणादित्यर्थः । ननु पुच्छादिषु धात्वर्थ इत्येव णिजित्येव सिद्धे सिद्धशब्दो व्यर्थ इत्यत आह सिद्धशब्द इति । धातुपाठात्मक. प्रन्यसमाप्तौ सिद्धशब्दप्रयोगो मङ्गलार्थ इत्यर्थः । पस्पशाह्निकभाष्ये 'हि सिद्धे शब्दार्थसंबन्धे' इति वार्तिकप्रन्थस्यादिमवार्तिकव्याख्यावसरे सिद्धशब्दोपादानं मङ्गलार्थमित्युक्तम् । 'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते' इति भूवादिसूत्रस्थभाष्याद् प्रन्थान्तेऽपि मङ्गलस्य कर्तव्यतासिद्धिः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायां चुरादिनिरूपणं समाप्तम् । अथ 'हेतुमति च' इति णिज्विधि वक्ष्यन् हेतुसंज्ञामाह तत्प्रयोजको हेतुश्च । 'खतन्त्रः कर्ता' इति पूर्वसूत्रोपात: कर्ता तच्छब्देन परामृश्यते। तस्य कर्तुः प्रयोजकः, प्रवर्तयिता तत्प्रयोजकः, तदाह कर्तुः प्रयोजको हेतुसंश इति । चकारः पूर्वसूत्रोपात्तां कर्तृसंज्ञां समुच्चिनोति, तदाह कर्तृसंक्षश्चेति । देवदत्तः पचति, तं प्रेरयति यज्ञदत्त इत्यत्र देवदत्तस्यैव पाकानुकूलव्यापारात्मकपचधात्वर्थाश्रयत्वरूपकर्तृत्वसत्त्वात् प्रयोजकस्य तदभावादिह कर्तृसंज्ञाविधिः। प्रयोजकस्य प्रयोज्यका अन्यथासिद्धत्वाद्धेतुत्वाप्राप्तौ हेतुसंज्ञाविधिः। हेतुमति च। 'सत्यापपाश-' इत्यतो णिजित्यनुवर्तते । हेतुः प्रयोजक आधारतया अस्यास्तीति हेतुमान्-प्रयोजकनिष्ठः प्रेषणादिव्यापारः, तस्मिन् वाच्ये णिच् स्यादित्यर्थः । 'धातोरेकाचो हलादे-' इत्यतो धातोरित्यनुवर्तते, तदाह प्रयोजकव्यापार इति । प्रेषणादावित्यादिशब्देन अध्येषणानुमत्युपदेशानां ग्रहणम् । तत्र भृत्यादेनिकृष्टस्य प्रवर्तना प्रेषणम् आज्ञे
तत्प्रयोजको हेतुश्च । तच्छब्देन 'खतन्त्रः कर्ता' इति पूर्वसूत्रोपात्तः कर्ता परामृश्यते । तस्य कर्तुः प्रयोजकः प्रेरकः, तद्यापारानुकूलव्यापारवानित्यर्थः । चकार एकसंज्ञाधिकारबाधनार्थस्तदाह हेतुसंहः कर्तृसंसश्चेति । हेतुसंज्ञायाः प्रयोजनं 'भीस्म्योहेतुभये' 'भियो हेतुभये षुक्' इत्यादी प्रयोजकस्य हेतुत्वेन व्यवहारः । कर्तृसंज्ञायास्तु 'लः कर्मणि च भावे च-' इति सूत्रेण प्रयोजके वाच्ये लकारादयः । हेतुमति च । खनिष्ठाधारतानिरूपिताधेयतासंबन्धेन हेतुर्यत्रास्ति स हेतुमानच्यापारः, तस्मिन्वाच्ये णिजित्याहुः । प्रयोजकन्यापार इति । प्रयो.