________________
४२४ ]
सिद्धान्तकौमुदी ।
[ चुरादि
तु नवगणीपाठो बहुलम् इत्याहुः । तेनापठितेभ्योऽपि क्वचि स्वार्थे णिच् । 'रामो राज्य मचीकरत्' इति यथेत्याहुः । चुरादिभ्य एव बहुलं विजित्यर्थ इत्यन्ये । सर्वे पक्षाः प्राचां ग्रन्थे स्थिताः । 'णिङङ्गाविरसने' (ग सू २०६ ) । श्रङ्गवाचिनः प्रातिपदिकान्निरसनेऽर्थे णिङ् स्यात् । हस्तौ निरस्यति हस्तयते । पादयते । 'श्वेताश्वाश्वतरगालोडिताह्नरकाणामश्वतरेत कलोपश्च' (ग सू २१० ) | श्वेताश्वादीनां चतुर्णामश्वादयो लुप्यन्ते, णिड् च धात्वर्थे । । श्वेताश्वमाच, तेनातिक्रामति वा, श्वेतयते । अश्वतरमाचष्टे श्रश्वयते । गालोडितं वाचां विमर्शः, तस्करोति गालो - यते । श्रारयते । केचित्तु णिचमेवानुवर्तयन्ति । तन्मते परस्मैपदमपि । 'पुच्छादिषुधावर्थे इत्येव सिद्धम्' (ग सू २११ ) । णिजन्तादेव बहुलवचनादात्मनेपदमस्तु । मास्तु 'पुच्छभाण्ड -' ( सू २६७६ ) इति णिङ्गविधिः । सिद्धशब्दो प्रन्थान्ते मङ्गलार्थः ।
1
1
इति तिङन्ते चुरादिप्रकरणम् ।
सुभादयश्च संगृहीता भवन्तीत्यर्थः । मतान्तरमाह अपरे त्विति । चुरादिभिन्ना उदाहृता ये नव गणाः तेभ्योऽपि क्वचित् स्वार्थे णिच् बहुलग्रहणादस्माल्लभ्यत इत्यर्थः । मतान्तरमाह चुरादिभ्य एवेति । वस्तुतस्तु भूतादिसूत्रे पाठेन धातुसंज्ञेति भाष्यप्रतीकमुपादाय स पाठो नोपलक्षणार्थः, किंतु इवत्ताप्रतिपादनार्थ इति कैयट आह । एवं च बहुलमेतन्निदर्शनम् इति गणसूत्रमनार्षमिति शब्देन्दुशेखरे स्थितम् । ङिङ्गान्निरसने इति । गणसूत्रम् । स्पष्टम् । ङित्त्वान्नित्यमात्मनेपदम् । श्वेताश्वाश्वतर गालोडिताहर काणामश्वतरेत कलोपश्च । इदमपि गणसूत्रम् । श्वेताश्वादीनामिति । श्वेताश्व अश्वतर गालंडित श्रह्वरक एषामित्यर्थः । श्रश्वादय इति । श्वेताश्वशब्दे श्रश्वशब्दः, अवतरशब्दे तरशब्दः, गालोडितशब्दे इतशब्दः, श्रह्वरकशब्दे कशब्दश्च लुप्यन्ते इत्यर्थः । णिङ् चेति । चकारलभ्यमिदम् । धात्वर्थे इति । 'प्रातिपदिकाद्धात्वर्थे इत्यतस्तदनुवर्तते । निरसन इति निवृत्तमिति भावः । विमर्श इति । विवेचनमित्यर्थः । केचित्त्विति । श्वेताश्वेत्यादिसूत्रे णिचमेवानुवर्तयन्ति न तु णिङमित्यर्थः । णिच्णिङोः फलभेदं दर्शयति तन्मते इति । पुच्छादिषु धात्वर्थे इत्येव सिद्धमिति । धातुपाठं रचयितुर्भीमसेनस्य वाक्यमिदमित्याहुः 'प्रातिपदिकाद्धात्वर्थे-' इति णिचि सिद्धे ‘पुच्छभाण्डचीवराण्णिङ्’ इति न कर्तव्यमित्यर्थः । ननु नित्यात्मनेपदार्थ 'पुच्छ
पुच्छादिष्विति । भीमसेनस्य वाक्यम् । ग्रन्थान्त इति । भू सत्तायामित्यादिधातुपाठस्यान्त इत्यर्थः । इति तत्त्वबोधिन्यां चुरादिप्रकरणम् ।