________________
प्रकरणम् ५२ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ४२३
करणभेदन इत्यन्ये । कर्ण इति धात्वन्तरमित्यन्ये । अन्ध १६२५ दृष्ट्यपघाते । उपसंहार इत्यन्ये । श्रान्दधत् । दण्ड १६२६ दण्डनिपातने । अङ्क १६२७ पदे लक्षणे च । आान्चकत् । अङ्ग १६२८ च । श्राञ्जगत् । सुख १६२६ दुःख १६३० तत्क्रियायाम् । रस १६३१ आस्वादनखेहनयोः । व्यय १६३२ वित्तसमुत्सर्गे । श्रवव्ययत् । रूप १६३३ रूपक्रियायाम् । रूपस्य दर्शनं करणं वा रूपक्रिया । छेद १६३४ द्वैधीकरणे । अचिच्छेदत् । छद १६३५ अपवारणे इत्येके । छदयति । लाभ १६३६ प्रेरणे । व्रण १९३७ गात्रविचूर्णने । वर्ण १६३८ वर्णक्रियाविस्तारगुणवचनेषु । वर्णक्रिया वर्णकरणम् । सुवर्णं वर्णयति । कथां वर्णयति । विस्तृणातीत्यर्थः । हरिं वर्णयति । स्वौतीत्यर्थः । ' बहुलमेतनिदर्शनम् (ग सू २०८ ) । प्रदन्तधातुनिदर्शनमित्यर्थः । बाहुलकादन्येऽपि बोध्याः । तद्यथा - - पर्ण १६३६ हरितभावे | अपपर्णत् । विष्क १९४० दर्शने । क्षिप १६४१ प्रेरणे । वस १९४२ निवासे । तुस्थ १६४३ आवरणे । एवमान्दोलयति । प्रेङ्खोलयति । विडम्बयति । श्रवधीरयति इत्यादि । श्रन्ये तु दशगणीपाठो बहुलम् इत्याहुः । तेनापठिता श्रपि सौत्रलौकिकवैदिका बोध्याः । अपरे
1
1
1
भावः । एतच्च भृशादिसूत्रे कैटे स्पष्टम् । अग्लोपित्वान्नोपधाहखः । सुख दुःख तत्क्रियायाम् । सुखानुकूले दुःखानुकूले च व्यापारे इत्यर्थः । सुख दुःखेति प्रातिपदिकाभ्यां तत्करोतीत्यर्थे णिच् स्यादिति यावत् । 'प्रातिपदिकाद्धात्वर्थे-' इत्येव श्रभ्यां णिजित्याहुः । बहुलमेतन्निदर्शनम् । गणसूत्रमिदम् । एतेषां कथादीनाम् अदन्तानां निदर्शनं पाठ इत्यर्थः, तदाह अदन्तेति । बहुलग्रहणस्य फलमाह बाहुलकादिति । अपपर्णदिति । अग्लोपित्वान्न सन्वत्त्वमिति भावः । क्षिप प्रेरणे । क्षिपयति । अग्लोपस्य स्थानिवत्त्वान्न गुणः । एवमग्रेऽपि । वस निवासे । वसयति । श्रदन्तत्वान्नोपधावृद्धिः । श्रान्दोलयतीत्यादौ प्रदन्तत्वेन ग्लोपित्वान्नोपधाहखः । तदेवं बहुलमेतन्निदर्शनम् इत्यस्य कथाद्यदन्तविषयत्वमुक्त्वा मतान्तरमाह अन्ये त्विति । भ्वादि:, श्रदादिः, जुहोत्यादिः, दिवादिः, स्वादिः, तुदादिः, रुधादिः, तनादिः कषादिः, चुरादिरिति दशगणी, तद्बहिर्भूता श्रपि सौत्राः जुप्रभृतयः, लौकिकाः प्रेङ्खोलादयः, वैदिकाः 'तद्रक्षांसि रात्रिभिरसुम्नन्' इत्यादौ स्येत्संज्ञा प्रकृत्यकारस्य तु इष्ठवदिति टिलोपः । तथा च श्रग्लोपादखसंग्रामतेत्यत्र नोपधाहखः । सुख दुःख । तच्छब्देन सुखदुःखे प्रातिपदिकार्थी परामृश्येते । 'प्रातिपदिकाद्धात्वर्थ-' इत्येव सिद्धे अनयोः पाठः सोपसर्गात्प्रत्ययार्थ इत्येके । सुखदुःखाभ्यां तत्क्रियायामेव णिच् स्यान्न त्वाचष्ट इत्यस्मिन्नर्थे इत्येतदर्थः पाठ इत्यन्ये ।