________________
४२२ ]
सिद्धान्तकौमुदी। [ चुरादिमित्यर्थः । असिना हन्ति असयति । वक्क १११६ दर्शने । चित्र १६१७ चित्रीकरणे । आलेख्यकरण इत्यर्थः । कदाचिद्दर्शने । चित्र इत्ययमद्भुतदर्शने णिचं लभते । चित्रयति । अंस १६१८ समाघाते । वट १६१६ विभाजने। बज १९२० प्रकाशने । वटि बजि इत्येके । वएटयति । जञ्जयति । अदन्तेषु पाठबलावदन्तस्वे वृद्धिरित्यन्ये । वएटापयति । लापयति । शाकटायनस्तु कथादीनां सर्वेषां पुकमाह । तन्मते कथापयति गणापयति इत्यादि। मिश्र १९२१ सम्पर्के । संग्राम १६२२ युद्धे । अयमनुदात्तेत्, प्रकारप्रश्लेषात् । प्रससमामत । स्तोम १६२३ श्लाघायाम् । अतुस्तीमत् । छिद १९२४ कर्ण भेदने। न तु चतुरादिमात्रमिति । कर्तृप्रहणं विहाय करणादित्येवोक्तौ चक्षुरादीन्द्रियमेव सुप्रसिद्धत्वात् करणादिति शब्देन गम्येत । अतः कर्तृप्रहण मेत्याहुः । वस्तुतस्तु 'साधकतमं करणम्' इति शास्त्रप्रसिद्धकरणस्य ग्रहणौचित्यात् कर्तृगहणं स्पष्टार्थमेव। केचित्तु कर्तृकरणादिति द्वन्द्वमाश्रित्य देवदत्तेन वाचयति देवदत्त यतीति कर्तुरुदाजहुः । कदाचिद्दर्शने इति । चित्रेत्यनुवर्तत, तदाह चित्र इत्ययमिति । कदाचिद्दशेने इत्यस्य विवरणम्- अद्भुतदर्शने इति । चित्र चित्रीकर णकदाचिद्दर्शनयोरित्येव सुवचम् । वटि लटि इत्येके इति । ननु कथादाव-नयोः पाठो व्यर्थः । इदितोरनयोः टकारजकारान्तयोरदन्तत्वस्याप्रसक्केः फलामावाच्चेत्यत आह अद. न्तेष्विति । अदन्तेषु पाठबलाद् वण्ट लजेति कदाचिददन्तत्वमप्यनयोर्विज्ञायते । अदन्तत्वस्य च फलाभावादतो लोपं बाधित्वा 'अचो रिणति' इति वृद्धौ ‘अतिही-' इति पुगित्यर्थः, फलितमाह वण्टापयतीति । शाकटायनस्त्विति । ऋषिविशेषोऽयम् । संग्राम युद्धे । गणसूत्रमिदम् । युद्धवाचि संग्रामेति प्रातिपदिकं करोत्यर्थे णिचं लभत इत्यर्थः। ननु 'प्रातिपदिकाद्धत्वर्थ-' इत्येव सिद्ध किमर्थमिदमित्यत आह अनुदात्तेदिति । एतदात्मनेपदार्थमिति भावः । ननु संग्रामशब्दस्य प्रातिपदिकस्य प्रकारान्तत्वात् कथमनुदात्तत्वमित्यत आह अकारप्रश्ले. षादिति । संप्रामशब्दादनुदात्तानुनासिकं पररूपेण प्रश्लिष्य निर्देशादिति भावः । अससंग्रामतेति । लुङि चछि संग्रामशब्दस्य ण्यन्तस्य प्राङ्गत्वात् ततः प्रागडिति करणादित्यत्र समाहारद्वन्द्वं मत्वा देवदत्तेन पाचयति देवदत्तयतीत्युदाजहः । कदा. चिद्दर्शने । चित्रकरणकदाचिद्दर्शनयोरिति सुवचम् । अदन्तेषु पाठबलादिति । अदन्तस्य फलान्तराभावादतोलोपं बाधित्वा वृद्धिरित्यर्थः । संग्राम । संग्रामेति युद्धवाचि प्रातिपादिकं करोत्यर्थे णिचं लभते। अनुदात्तेदिति । एतच्च ‘भृशादिभ्यो भुवि-' इति सूत्रे कैयटेनोक्तम् । अकारप्रश्लेषादिति । तेन प्रश्लिष्ट