________________
प्रकरणम् ५२ ] बालमनोरमा तत्त्वबोधिनीसहिता। [४२१ न्तर्भूतं द्वितीयान्तं यादृशं च कार्य कुस्वतस्वादि तदिहापीत्यर्थः । कंसमजीवतत् । 'कर्तृकरणाद्धात्वर्थे' (ग सू २०७) कर्तुापारार्थ यस्करणं न तु चक्षुरादिमात्र. विवक्षिता, व्याख्यानात् । प्रकृताविव प्रकृतिवत् । सप्तम्यन्ताद्वतिः, तदाह प्रकृतेहन्यादेर्हेतुमराणाविति । प्रयुज्यमाने सतीति शेषः । कारकमित्यस्य विवरणं द्वितीयान्तमिति । द्वितीयातृतीयादिकारकविभक्यन्तमित्यर्थः । हन्ति कंस कृष्णः तं प्रेरयतीत्यर्थे कंसं घातयति, कंसमजीघतदित्यादौ हेतुमएण्यन्ते प्रयुज्यमाने यद् द्विती. यादिकारकविभक्त्यन्तं यच्च कार्य कुत्वतत्वाद्वित्वादि तत्सर्वम् 'आख्यानात् कृतः-' इत्यस्योदाहरणे कंसवधमाचष्टे कंसं घातयति, कंसवधमाचष्ट कंसमजीघतदित्यादावपि भवतीति फलितम् । तत्र कारकमित्यनेन कंसात् षष्ठी निरस्ता, उदाहृतहेतुमएण्यन्त. स्थले कृद्योगाभावेन कर्मणि द्वितीयाया एव सत्त्वात् । कार्यमित्यनेन तु कुत्वतत्वे कंसस्य अद्वित्वनिरासश्चेति बोध्यम् । श्राख्यानशब्दश्च कथंचिद् वृत्तानुवादपरः, न तु भारता. दिप्रसिद्धकंसवधादिकथापरः । तेन राजागमनमाचष्टे राजानमागमयतीत्यादि सिध्यति । द्वितीयान्तमित्यत्र द्वितीयाग्रहणमुपलक्षणम् । तेन पुष्ययोगमाचष्टे पुष्येण योजयतीति सिध्यतीति भाष्ये स्पष्टम् । कर्तृकरणाद्धात्वर्थे । इदमपि गणसूत्रम् । प्रातिपदिकाद्धात्वर्थे इत्यस्यैव प्रपञ्चः । कर्तुः करणं कर्तृकरणम्, न तु कर्ता च करणं च इति द्वन्द्वः, व्याख्यानात् , तदाह कर्तुापारार्थमिति । अभिमतफलोत्पादनार्थमित्यर्थः । साध. कतममिति यावत् । नन्वेवं सति कारणाद्धात्वर्थे इत्येव सिद्ध कर्तृप्रहणं व्यर्थमित्यत आह भूतद्वितीयान्तादिलाभाय कारकातिदेशः । कार्यातिदेशस्तु कुत्वतत्वादिलाभायेति विवेकः । इह भारतभागवतादिप्रसिद्ध कंसवधायुपाख्याने एव णिजिति नाग्रहः, किं तूपाख्यानमात्रे। तेन राजागमनमाचष्टे राजानमागमयतीत्यादि सिध्यति । इह कृत्प्रकृतौ राज्ञः कर्तृत्वेऽपि गमे तुमराणौ 'गतिबुद्धि-' इत्यनेन तस्य कर्मत्वमिति द्विती. यान्तमेव रूपातिदेशबलात्स्वीक्रियते । देवदत्तपाकमाचष्टे देवदत्तेन पाचयतीत्यत्र तु देवदत्तस्य कर्तृत्वानपायात्तृतीयैव भवति । रुक्मिणीहरणमाचष्टे इत्यादौ 'हृकोरन्यतरस्याम्' इति विकल्पाद् रुक्मिणी रुक्मिण्या वा हारयतीति प्रयोगः। कर्तृकरणादिति । कर्तृप्रहणाभावे चक्षुषा पश्यति चक्षयतीत्यादावेव स्यान तु करिभिरवब. नाति अवकरयतीत्यादौ। लोके इन्द्रियाणामेव करणत्वेन सुप्रसिद्धत्वात् , अतस्तत्संप्रहार्थ कर्तृग्रहणमिति मनोरमायां स्थितम् । नव्यास्तु-साधकतमत्वेन विवक्षितं यत् तत्करणशब्देन गृह्यते, न तु लोकप्रसिद्धकरणमेव । अन्यथा 'कर्तृकरणयोस्तृतीया' इत्यादावपि लोकप्रसिद्धकरणग्रहणप्रसक्तया बाणेन हत इत्यादि रूपं न सिध्येत् । तथा च कर्तृग्रहणं विनाप्यवकरयतीति रूपसिद्धौ न किंचिद्बाधकमिति व्याख्याय कर्तृ