________________
४२० ] सिद्धान्तकौमुदी।
[चुरादि. ततश्चाद्वित्वयोर्दोषः । किं च कुस्वतत्वे न स्याताम् , धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । सत्यम्, प्रकृतिवञ्च इति चकागे भिन्नक्रमः-कारकं च, चारकार्यम् । हेतुमरिणचः प्रकृतेर्हन्यादेहेतुमरणो यादृशं कारकं धातावन. चेति । 'अचो रिणति' इत्यतस्तदनुवृत्तेरिति भावः । तथा २ हनो नकारस्य तत्वे 'हो हन्तः-' इति कुत्वेन हस्य घकारे घातीति एयन्तं फलितम् । ततो लटि घातयति इति रूपं स्थितम् । कृतो लुकि समासनिवृत्तौ सुब्लुकोऽपि निवृत्तौ कंसमिति च स्थितम् । 'आख्यानात् कृतः-' इति वार्तिकस्थं प्रकृतिवच्च कार कमित्यंशं शङ्कोत्तरत्वेन योजयिष्यन् शङ्कामवतारयति नन्विति । कंसविशिष्टस्येति । कंसवधशब्दस्यैवेत्यर्थः । तस्मादेव णिचो विधानादिति भावः । ननु कंसवधशब्दस्य अङ्गत्वे का हानिरित्यत आह ततश्चेति । कंसवधशब्दस्याङ्गत्वाद् अद्वित्वयोर्विषये दोषः स्यात् । कंसशब्दात्पूर्वमडागमः स्यात् । कंस इत्यस्य द्विवचनं न्यात् । इष्यते तु कंसमजीघतत् इत्येवं हनधातोरेवोभयमित्यर्थः । किं चेति । कंसं घातयतीति कुत्वतत्वे न स्यातामित्यर्थः । कुत इत्यत आह घातोरिति । धातोर्हन इत्यादितत्तत्वरूपेण प्रहणे सति तत्प्रत्यये-धातोविहितप्रत्यये कार्यविज्ञानमिति परिभाषयेत्यर्थः । तेन वानमित्यत्र 'हनस्तोऽचरणलोः' इति तत्वं न भवतीति 'हनस्तो चिराणलोः' इति सूत्रे भाष्ये स्पष्टम् । तथा च प्रकृते कंसं घातयतीत्यत्र 'हो हन्तेः-' इति कुत्वं हनस्तोऽचिएणलोः' इति तत्वं च न स्याताम् , अत्र णिचः प्रातिपदिकाद्विहितत्वेन धातोर्विहितत्वाभावादित्यर्थः । अत्र प्रत्ययलक्षणेन कृदन्ततया कृत्प्रकृत्यर्थस्य कर्मत्वेन कंसस्येति षष्ठी स्यादित्यप्याक्षेपो बोध्यः, तत्परिहारस्यापि वक्ष्यमाणत्वात् । तामिमां शङ्कामर्धानीकारेण परिहरति सत्यमिति । कंसवधशब्दस्यैव ङ्गत्वमित्याद्यङ्गीक्रियते, दोषापादनं. तु नामीक्रियत इत्यर्थः । प्रकृतिवञ्चेतीति । आख्यानात् कृतः-' इति वार्तिके प्रकृतिवच्चेति चकारो मिन्नक्रमः, प्रकृतिवदित्यनन्तरपठितः चकारः कारकमित्यस्मादूर्ध्व निवेशनीय इति भावः । तदेवाभिनीय दर्शति कारकं चेति । चकारोऽयमनुक्कसंग्रहार्य इत्याह चात्कार्यमिति । समुच्ची पत इति शेषः । तथा च कारकं कार्य च प्रकृतिवदिति फलितम् । अत्र प्रकृतिशब्देन हेतुमरिणचः प्रकृतिविधानादिति भावः । दोष इति । कशब्दात्पूर्वमडागमः कंस इत्यस्य द्विवचनं स्यादित्यर्थः । किचेति । एवं च कसमजीघतदितीष्टं न सिध्ये देति भावः । तत्प्र. त्यये धातोर्विहितप्रत्यये । तेन वानमित्यत्र 'हनस्त-' इति तत्वं न भवतीति ज्ञेयम् । उकदोषान्परिहरति सत्यमिति । प्रकृतिवचेति चकार ऽनुक्कसंग्रहार्थ इत्याह चात्कार्यमिति । यद्यप्यन्यतरातिदेशेनाप्यद्विवचने सिध्यतः, तथापि धातावनन्त