________________
प्रकरणम् ५२ ] बालमनोरमा तत्त्वबोधिनीसहिता। [४१६ क्रामति अश्वयति । हस्तिनातिकामति हस्तयति । 'धातुरूपं च' (गसू २०६) णिप्रकृतिर्धातुरूपं प्रतिपद्यते । चशब्दोऽनुक्रसमुच्चयार्थः । तथा च वार्तिकम् - 'पाख्यानास्कृतस्तदाचष्टे कल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवध कारकम् (वा १७६६) इति । कंसवधमाचष्टे कंसं घातयति । इह कंसं हन् इ इति स्थिते, २५७४ हनस्तोऽचिराणलोः। (७-३-३२) हन्तेस्तकारोऽन्तादेशः स्याच्चि. एणल्वर्जे जिति णिति । नन्वत्राङ्गसंज्ञा धातुसंज्ञा च कंसविशिष्टस्य प्राप्ता । इत्यत्र कुत्वं तु न शङ्काम् , असुबन्तादेव प्रातिपदिकात् प्रत्ययोत्पत्तेः । धातुरूपं
चेति । इदमपि गणसूत्रः । णिच्प्रकृतिरिति प्रतिपद्यत इति चाध्याहृत्य व्याचष्टे णिप्रकृतिर्धातुरूपं प्रतिपद्यत इति । ननु प्रातिपदिकाद् धात्वर्थे णिज् भवति णिचप्रकृतिर्धातुरूपं च प्रतिपद्यते इति प्रतीयमानार्थाश्रयणे भुक्तमाचष्टे भुक्तयतीति न स्यात् । भुक्तशब्दस्य भुजधातुरादेशः स्यादित्यत आह चशब्दोऽनुक्कसमुच्चयार्थ इति । किमनुक्तं समुच्चीयते इत्यत आह तथा च वार्तिकमिति । आख्यानात् कृत इते । ‘हेतुमति च' इति सूत्रे इदं वार्तिकं स्थितम् । आख्यानं वृत्तकथाप्रबन्धः तद्वाचिनः कृदन्तात् कंसवधादिशब्दात् तदाचष्टे इत्यर्थे णिचि कृते णिच्प्रकृत्यवयवभूतस्य कृतो लुक, तस्यैव कृतोः या प्रकृतिः हनादिधातुरूपा, तस्याः प्रत्यापत्तिः-आदेशादिविकारपरित्यागेन खरूपेणावस्थानं भवतीत्यर्थः । प्रकृतिवच्च कारकम् इत्यंशस्तु मूल एव व्याख्यास्यते। कंसवधमाचष्टे कंसं घातय. तीत्युदाहरणम् । हननं वधः, 'हनश्च वधः' इति भावे हनधातोः अप्प्रत्ययः प्रकृतेः वधादेशश्च । कंसस्य वधः कंसवधः, तदन्वाख्यानपरवाक्यसन्दर्भो विवक्षितः । तमाचष्टे इत्यर्थे णिच् । अप्प्रत्ययस्य कृतो लुक् प्रकृतिभूतस्य हनधातोर्वधादेशस्य च निवृत्तिः। तथा च फलित दर्शयति इह कंसं हन् इ इति स्थिते इति ।' हनस्तोऽचिराणलो। हन इति षष्ठी । त इत्यत्र प्रकार उच्चारणार्थः, तदाह हन्तेस्तकार इति । अन्तादेश इत्यलोऽन्त्यपरिभाषया सिद्धम् । अिति णिति इत्यादिनिर्देशानुगुणत्वाच्च सुबन्तारिणजिति पक्ष एव ज्यायानित्याहुः। णिच्प्रकृतिरिति । वधशब्दो णिप्रकृतिरिदानीं तु कुल्लुक्यवशिष्ट भाग एव प्रकृतिरित्यर्थः ।
आख्यानात्कृत इति । यद्यपि वधशब्दः कृदन्तः, स आख्यानं न भवति, तथाप्याख्यानवाची कृदन्तश्च कंसवधशब्दो भवत्येव, कृग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् । कल्लुगिति । 'हनश्च वधः' इति विहितस्य अप्प्रत्ययस्य लुक् । प्रकृ. तिप्रत्यापत्तिरिति । विकारपरित्यागेन खरूपेणावस्थितिरित्यर्थः, तदेतत्सकलममि. प्रेत्याह कंसं हन् ई इति स्थिते इति । कंसविशिष्टस्येति । तस्मादेव णिचो