________________
४१८ ] सिद्धान्तकौमुदी। [ चुरादि. तदाचष्टे' (ग सू २०४) । पूर्वस्यैव प्रपञ्चः । करोस्याचष्टे इति धात्वर्थमात्रं णिजथः । बडर्थस्त्वविवक्षितः । 'तेनातिकामति' (ग सू २०५) । अश्वेनाति. दिकमुदाहियते । एनीमाचष्टे एतयति, पुंवद्भावाद् डीब्नकारयोनिवृत्तिः । दृढमाचष्टे द्रढयति, ‘र ऋतः-' इति रभावः । स्रग्विणमाचष्टे स्रजयति, विन्मतोः-' इति विनो लुक् । गोमन्तमाचष्टे गवयति, मतुपो लुक्, अङ्गवृत्तप रेभाषया न वृद्धिः । स्थूलमाचष्टे स्थवयति इत्यादिषु यणादिलोपः। प्रियमाचष्टे गपयति, स्थिरमाचष्टे स्थापयति इत्यादिषु प्रस्थस्फाद्यादेशाः । अत्र वृद्धिर्भवत्येव, द्वयोरिति निर्देशन अङ्गवृत्तपरिभाषाया अनित्यत्वाश्रयणात् । स्रग्विणमाचष्टे जयति, सुबन्ताद् विहितस्य विनो लुकि अन्तर्वर्तिविभक्त्या पदत्वात् प्राप्तं कुत भत्वान्न भवति । तत्करोति तदाचष्टे । इदमपि चुरादिगणसूत्रम् । प्रातिपदिकादित्यनुवर्तते । तत्करोति तदाचष्ट इति चार्थ प्रातिपदिकारिणच् स्यादित्यर्थः। प्राचारकिबिव पातिपदिकादेवेदम् । ननु 'प्रातिपदिकाद्धात्वर्थे-' इत्येव सिद्धे किमर्थम् दमित्यत आह पूर्वस्यैव प्रपञ्च इति । ननु करोति प्राचष्टे इति व माननिर्देशादकरोदित्याद्यर्थेषु न स्यादित आह करोत्याचष्टे इत्यादि । लडर्थ ति । उपलक्षणम् । तेन भूते भविष्यति द्वित्वे बहुत्वे च प्रत्ययो भवत्येव । तेनानिकामति । इदमपि गणसूत्रम् । 'प्रातिपदिकाद्धात्वर्थे-' इत्यस्यैव प्रपञ्चः । वाचा प्रतिकामति वाचयति कृतप्राप्तिमात्रेण लोपो नित्यः । वृद्धिस्त्वनित्या, टिलोपे सति स्थानिनः पूर्वत्र कर्तव्यायां लोपस्य स्थानिवत्त्वात् , स्वविधौ स्वस्य स्थानिवत्त्वाभावाच्च । अस्मिस्तु पक्षे 'मुण्डमिश्र-' इति सूत्रे हलिकल्योरदन्तत्वनिपातनस्य वैय' यमेव । वृद्धेः प्राक् टिलोपे सति अग्लोपित्वसंभवात् । तथा चादन्तत्वनिपात सामडिलोपात्पूर्व वृद्धिरेवत्यनग्लोपित्वादपीपटदित्येव रूपं साध्विति प्रतीयते । भाष्यद्वयप्रामाण्याद्रूपद्वयमपि साध्विति बहवः । लडर्थस्त्विति । करोत्या चष्टे इति हि कर्तरि वर्तमाने लडेकवचनम्। लडविवक्षायां तु ण्यन्ताद्भावकर्मणो; भूतभविष्यतोड़ित्वबहुत्वयोश्च प्रत्ययो भवत्येवेति भावः । यद्यप्येकत्वादिसंख्या लडर्थो न भवति, तथापि लडादेशतिर्थोऽपीह लडर्थत्वेन गृहीत इति ज्ञेयम् । तेनातिकामति । तृतीयाप्रकृतिभूतात्प्रातिपदिकारिणच् । तृतीयान्तारिणजित्यन्ये । एवं तत्करोतीत्यत्रापि द्वितीयाप्रकृतिभूताद् द्वितीयान्ताद्वा णिच् । न च सुवन्तारि गचि वाचं करोत्याचष्टे वाचाऽतिकामति वा वाचयतीत्यत्र कुत्वं स्यादिति शङ्कयम् इष्ठवद्भावेन भसंज्ञया पदसंज्ञाया बाधात् । यशखिनमाचष्टे यशसयति स्रग्विणमाचष्टे सजयतीत्यादौ विनो लुकि प्राप्तस्य पदकार्यस्य बाधार्य भसंज्ञातिदेशस्यावश्यक त्वाम् 'तत्करोति-'