________________
प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४१७ पटयति । परस्वाद् वृद्धौ सत्यां टिलोपः, अपीपटत् । 'यो चकि-' (स् २३१५) इत्यत्र भाष्ये तु 'वृद्धेर्लोपो बलीयान्' इति स्थितम् , अपपटत् । 'तत्करोति 'स्थूलदूरयुव-' इत्यादिना यणादिलोपः पूर्वस्य च गुणः । अतिशयेन प्रियः श्रेष्ठ इत्यादौ 'प्रियस्थिर-' इत्यादिना प्रस्थाद्यादेशः । अतिशयेन स्रग्वी स्रजिष्ठ इत्यत्र भत्वान कुत्वम् । एते इष्छे इव णावपि परतः स्युरित्यर्थः। पटयतीति । पटुमाचष्टे इत्याद्यथें णिच् । इष्ठवत्त्वात् 'टेः' इति टिलोप इति भावः । ननु उकारस्य टेलोपे सति अग्लोपित्वात् सन्वत्त्वं न स्यादित्यत आह परत्वाद् वृद्धौ सत्यां टिलोप इति । 'अचो जिणति' इति उकारस्य वृद्धौ कृतायामौकारस्य टेर्लोपः। अकृतायां तु वृद्धौ उकारस्य टेर्लोपः। ततश्च 'शब्दान्तरस्य प्राप्नुवन् विधिरनित्यः' इति न्यायेन टिलोपः अनित्यः। वृद्धिस्तु टिलोपे कृते सति नैव भवतीति साप्यनित्या । एवं च वृद्धिटिलोपयोरुभयोर्मध्ये परत्वाद् उकारस्य वृद्धिः औकारः । तस्यावादेशात्प्रागेव परत्वाद् वार्णादाङ्गस्य बलीयस्त्वाच ौकारस्य टेर्लोप इत्यर्थः। एवं च अनग्लोपित्वात् सन्वत्त्वमिति मत्वाह अपीपटदिति । एतच 'मुण्डमिश्र-' इति सत्रे भाष्यकैयटयोः स्पष्टम् । स्थितमिति । तथा च वृद्धेः प्रागुकारस्य लोपे अग्लोपित्वान्न सन्वत्त्वमित्यर्थः । भाष्ये उभयथा दर्शनाद्रपद्यमपि साध्विति बोध्यम् । शब्देन्दुशेखरे तु 'वृद्धः लोपो बलीयान् इति 'णौ चडि-' इति सूत्रभाष्यमेव प्रमाणम् , 'मुण्डमिश्र-' इति सूत्रभाष्यं त्वेकदेश्युक्तिरिति प्रपश्चितम् । अत्र पुंवद्भावाअनित्यत्वज्ञापनादिति दिक् । परत्वाद् वृद्धाविति। लोपः शब्दान्तरप्राप्त्याऽनित्यः । वृद्धिरप्यनित्या । उभयोरनित्ययोः परत्वाद् वृद्धिः । तस्यां कृतायामौकारस्यावादेशात्प्रागेव परत्वाद्वार्णादाङ्गस्य बलीयस्त्वाच लोप इत्यर्थः । एवं चानग्लोपित्वाद्दीर्घसन्वद्भावी स्त इत्याह अपीपटदिति । इह टिलोपस्य स्थानिवद्भावेन व्यवधानादीर्घसन्वद्भावी नेति न भ्रमितव्यम् । स्थानिवत्त्वेऽप्यङ्गस्य णिच्परत्वानपायात् । चपरे णौ यल्लध्विति पक्षेऽपि अभ्यासस्य आदिष्टादचः पूर्वत्वेन स्थानिवत्त्वमेव नास्तीति दीर्घसन्व. द्भावौ स्त एव । केचित्तु चपरे णौ यल्लध्विति पक्षे पटुशब्दोकारस्य वृद्धौ कृताया णिपरं लघु दुर्लभमिति सन्वद्भावाप्राप्त्या अपपटदित्येव रूपम् । प्रथमं टिलोपः पश्चाद् द्विवचनमिति मत्वा अभ्यासस्य श्रादिष्टादचः पूर्वत्वेन स्थानिवत्त्वमेव नास्तीति मनोरमोक्तं यत्, तन्नादर्तव्यम् । णिच्यच आदेशो न स्याद् द्वित्वे कर्तव्ये इति निषेधपक्षस्य मुख्यतया प्रागुरुत्वेन प्रथमं टिलोपस्य दुरुपपादत्वादित्याहुस्तन्मन्दम् । अपीपटदित्यत्र द्वितीयापर्यन्तस्य प्रथमावयवस्य द्वित्वमिति हि निर्विवादम् । तथा च द्वितीयस्याचो द्वित्वकरणात्प्रथमं टिलोपः स्यादेवेति । वृद्धेर्लोप इति । कृता