________________
सिद्धान्तकौमुदी। [चुरादिप्रातिपदिकाद्धात्वर्थे णिस्यात् , इष्ठे यथा प्रातिपदिकस्य प्रवद्रावरभावाटिलोप. विन्मतुब्लोपयणादिलोपप्रस्थस्फाचादेशभसंज्ञास्तवण्णावपि स्युः । पटुमाचष्टे ज्विकल्प इति मत्वाह कर्तयति, कर्ततीति । प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवश्च । चुरादिगणसूत्रमिदम् । इटवदिति सप्तम्यन्तातिः । तेन भुवमाचटे भावयतीत्यत्र 'इष्ठस्य यिट् च' इति बिडागमो न भवति, दाह इष्ठे यथेति । अत्र धात्वर्थे इत्यनेन करणम् श्राख्यानं दर्शनं वचनं श्राणमित्यादि गृह्यते । पुंवद्धावति । अतिशयेन पटवी पटिष्ठे त्यत्र 'भस्याढे-' इति पुंवत्त्वम् । इढिष्ठ इत्यत्र 'र ऋतो हलादेर्ल घोः' इति रभावः । अतिशयेन साधुः साधिष्ठ इत्यत्र टिलोपः । प्रातिशयेन स्रग्वी स्रजिष्ठ इत्यत्र 'विन्मतोलुक' इति विनो लुक् । अति. शयेन गोमान् गविष्ठ इत्यत्र मतुपो लुक् । अतिशयेन स्थलः स्थविष्ठ इत्यादौ अनेकाच्वान षत्वम् । प्रातिपदिकादिति । यदि सुबन्तानि च स्यात्तदा स्रजयतीत्यादौ कुत्वं स्यादिति भाव इति केचित् । तन, इष्ठवद्भावेन त्वे कुत्वस्याप्रसक्तः । अत्र बहुलं णिच् स्यात् । स च णिच् इष्टवद्भवतीत्यन्वयात्परे वाक्यमपि भवतीत्याह पटुमाचष्ट इति । धात्वथे इत्यनेन करणाख्यानादिह त इति भावः । ननु बहून्याचष्टे भावयतीत्यत्र 'इलस्य यिट् च' इति णिचोऽपि यिः स्यात् । अत्राहुः-- टेरिति सूत्रे ‘णाविष्ठवत्प्रातिपदिकस्य' इति वार्तिके प्रातिपदिका हणं प्रत्ययकार्याणा मतिदेशो माभूदित्येवमर्थम् । तेनात्र णिचो यिएन भवति, तदभा भूभावेनापि न भवितव्यं संनियोगशिष्टत्वात् , किंतु बहयतीत्येव भवितव्यमिति मतान्तरम् । एतच्च तत्रैव सूत्रे कैयटे स्पष्टमिति । अन्ये त्वाहुः-इष्टवदिति हि सा म्यन्ताद्वतिर्णावित्युपमेये सप्तमीदर्शनात्तेन इष्ठनि परे पूर्वस्य यत्कार्य तदतिदिश्यते न त्विष्ठनोऽपीति । पुंवद्भावेति । अतिशयेन पदवी पटिठेत्यत्र 'भस्याढे तद्धिते इति पुंवद्भावः । ऋशिष्ठः द्रढिष्ठः इत्यत्र र ऋतो हलादेः-' इति रभावः । सालिष्ठ इत्यादौ टिलोपः। अतिशयेन स्रग्वी स्रजिष्ठ इत्यत्र ‘विन्मतोलुक्' इति विनो लुक् । अतिशयेन गोमान् गविष्ठ इत्यादौ मतुपो लुक् । स्थविष्ठ इत्यादौ 'स्थूलदूर- इत्यादिना यमादिलोपः । प्रेष्ठ इत्यादौ 'प्रियस्थिर-' इत्यादिना प्रस्थायादेशः । तद्वरणावपीति । पुंवद्भावस्योदाहरणमेणीमाचष्टे एतयति। टिलोपेनैव सनियोग शिष्टत्वानकारनिवृत्ती सिद्धायां पुंवद्भावप्रहणं दरदमाचष्टे दारदयतीत्यादिसिध्यर्थमिति बोध्यम् । द्रढयतीत्यादी रभावः । स्रग्विणमाचष्टे स्रजयतीत्यत्र विनो लुक् । गोमन्तमाचष्टे गवयतीत्यत्र मतुपो लुक् । श्रावृत्तपरिभाषया वृद्धिरत्र न भवति । प्रियमाचष्टे प्रापयति । स्थिरमाचष्टे स्थापयतीत्यादौ तु वृद्धिर्भवत्येव । 'द्वयोः' इति निर्देशेन तस्याः परिभाषायाः
FITHTHHHHETHALI