________________
प्रकरणम् ५२ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ४१५
अनेकावाच षोपदेशः । सिसत्रयिषते । गर्व १३०७ माने । गर्वयते । श्रदन्तस्वसामर्थ्याणिज्विकल्पः । धातोरन्त उदात्तः, लिटि आम् च फलम् । एवमग्रेऽपि । इत्यागर्वीयाः ।
सूत्र १९०८ वेष्टने । सूत्रयति । असुसूत्रत् । मूत्र १६०६ प्रनवणे । मूत्रयति, मूत्रति । रूक्ष १६१० पारुष्ये । पार १६११ तीर १६१२ कर्मसमाप्तौ । श्रपपारत् । श्रतितीरत् । पुट १३१३ संसर्गे । पुटयति । वेक १६१४ दर्शने इत्येके । अदिधेकत् । कत्र १९१५ शैथिल्ये । कत्रयति, कत्रति । कर्त इत्यप्येके । कर्तयति, कर्तति । 'प्रातिपदिकाद्धात्वर्थे बहुल मिष्ठवच्च' (ग सू २०३ ) ।
ग्रहणात् । गर्व माने । अभिमाने इत्यर्थः । ननु कथादावस्य पाठो व्यर्थः, अदन्तत्वे फलाभावात् । न च सन्वत्त्वनिवृत्तये अग्लोपित्वाय प्रदन्तत्वमिति शङ्कयम्, लघुपरकत्वाभावादेव तदप्रसक्तेः । नाप्यल्लोपस्य स्थानिवद्भावाद् उपधावृद्धिनिवृत्त्यर्थमदन्तत्वमिति शङ्कयम्, गकारादकारस्यानुपधात्वादेव तदप्रसक्तेरित्यत आह अदन्तत्वसामर्थ्याणिज्विकल्प इति । ननु गर्वते इत्यत्र णिजभावेऽप्यदन्तत्वं निष्फलमिति कथं तस्य विकल्पज्ञाषकतेत्यत आह धातोरन्त उदात्त इति । तेन गर्वते इत्यत्र वकारादकार उदात्तः फलति । अदन्तत्वाभावे तु गकारादकार उदात्तः स्यादिति भावः । लिट्याम् चेति । गर्वांचक्रे इत्यत्र 'कास्यनेकाचः-' इत्याम्प्रत्ययोऽप्यदन्तत्वस्य फलमित्यर्थः । अन्यथा अनेकाच्त्वाभावादाम् न स्यादिति भावः । एवमग्रेऽपीति । 'मूत्र प्रस्रवणे' इत्यादावित्यर्थः । इत्यागवयाः ।
I
सूत्र वेष्टने । अनेकात्वादषोपदेशत्वार्थमस्य अदन्तत्वमिति न ततोऽस्य णिज्विकल्पः । कत्र शैथिल्ये । कर्त इत्यपीति । श्रदन्तत्वसामर्थ्यादस्य - तत्र प्रातिपदिकस्य ग्रहणात् । श्रदन्तत्वसामर्थ्यादिति । कथादिषूपधावृद्धि - दीर्घ सन्वद्भावविरहेण सारभामप्रभृतीनामुपधाहस्वस्य गृहमृगप्रभृतीनामुपधागुणस्य च व्यावर्तनेनादन्तत्वं सार्थकम् । इह त्वदन्तत्वे प्रागुक्तफलाभावारिणचः पाक्षिकत्वं ज्ञापयतीति भावः । ननु दन्तत्वसार्थकत्वाय वाल्लोप इति प्राचोक्तमेवाभ्युपगम्यतामिति चेत् । अत्राहुः - चिन्तयतेरिदित्त्वं सामान्यापेक्षं ज्ञापकमिति मते इह अदन्तत्वस्य फलं स्पष्टमेव । विशेषापेक्षं ज्ञापकमिति मते तु तत्र तत्र आकार इकार ईकार उकार ऊकार श्वेत्यनुबन्धा यथा ज्ञापकतया स्वीकृताः तथा अदन्ततापि णिज्वकल्पमेव ज्ञापयतु, क्लृप्तेनैव गिज्विकल्पेन कृतार्थत्वे श्रपूर्वस्य लोपबाधस्य कल्पनाया श्रन्याय्यत्वात् । एवं हि सति मतद्वयेऽप्येकरूपमेव फलं लभ्यत इति । असुसूत्रदिति ।