________________
४१४ ]
सिद्धान्तकौमुदी। [चुरादिकूट १८६१ परितापे । परिदाहे इत्यन्ये । संकेत १८६२ ग्राम १८९३ कुण १८६४ गुण १८६५ चामन्त्रणे । चारकूटोऽपि । कूटयति । संकेतयति । ग्रामयति । कुणयति । गुणयति । पाठान्तरम्-केत श्रावणे निमन्त्रणे च । केतयति । निकेतयति । कुण गुण चामन्त्रणे । चकारास्केतेति । कूण १८६६ संकोचने इति। स्तेन १८९७ चौर्ये । प्रतिस्तेनत् ।।
____ा गर्वादात्मनेपदिनः । पद १८१८ गतौ । पदयते। अपपदत । गृह १८६१ ग्रहणे । गृहयते । मृग १६०० अन्वेषणे। मृगयते । मृग्यति इति कएड्वादिः । कुह १९०१ विस्मापने । शूर १६०२ वीर १९०३ विक्रान्तो। स्थूल १६०४ परिबृंहणे । स्थूलयते । अतुस्थूखत । अर्थ १६०५ उपयामा. याम् । अर्थयते । प्रार्तथत । सत्र १६.६ सन्तानक्रियायाम् । अससत्रत । नदिति । अग्लोपित्वान्नोपधाहस्व इति भावः । पाठान्तरमिति । केत श्रावणे इत्यादि ज्ञेयमित्यर्थः । चकारात्केतेति । समुच्चीयते इति शेषः । संकोचने इतीति । इतिशब्दः पाठान्तरसमाप्तौ। स्तेन चौर्ये । 'अनेकाच्यान्न षोपदशोऽयमिति मत्वाह अतिस्तेनदिति।
गृह ग्रहणे । ऋदुपधोऽयम् । गृहयते इति । अल्लोपस्य स्थानिवत्त्वान्न गुण इति भावः । लुडि अजगृहत । अग्लोपित्वान्न सन्वत्त्वम् । मृग अन्वेषणे । मृगयते इति । इहाप्यल्लोपस्य स्थानिवत्त्वान्न गुणः । 'मार्ग अन्वेषणे' इत्याधृषीयस्य तु मार्गयति मार्गति इति च गतम् । अर्थ उपायाच्मायाम् । अर्थयते इति । अर्थ इ इति स्थिते अतो लोपः । न तु 'अचो णिति' इति वृद्धिः, वृद्धेर्लोपो बलीयानिति न्यायात् । 'अर्थवेदयोः-' इत्यापुक्तु न, तत्र प्रातिपदिकस्य रूपे अवर्णपरत्वमुवर्णादेशस्यैव संभवति नान्यस्येत्याशयेनैव भाष्यकारेण तथोक्तमिति वक्तुं शक्यत्वादिति चेत् । मैवम् । तथा हि सति यत्र 'ओः पुयग्जि-' इत्यस्थाप्राप्तिस्तत्राप्युवर्णादेश एव स्थानिवद् ज्ञापकस्य सजातीयापेक्षत्वादित्येवमेव भाष्यकारो वदेत् , ऋजुमार्गेण सिध्यतोऽर्थस्य वक्रेण साधनायोगादिति दिक् । सङ्केत । चत्वारोऽत्र धातवः । पाठान्तरमिति। संकोचन इत्येतत्पर्यन्तम् । अनेकाच्त्वेनाषोपदेशत्वात्पत्वं नेति ध्वनयति अतिस्तेनदिति । गृहयते इति । अल्लोपस्य स्थानिवत्त्वान्न गुणः । लुङि अजगृहत् । अग्लोपान सन्वद्भावः । मृगयते इति। । मार्गयति मार्गतीति तु मार्ग अन्वेषण इत्याधृषीयस्य । अर्थ । अर्थयते इति । 'वृद्धोपो बलीयान्' इत्यल्लोपान वृद्धः । बोपदेवस्तु वृद्धौ कृतायां पुकि चाऽर्थापयते इति रूपमाह तद्रभसात् । न च 'अर्थवेदसत्यानाम्-' इत्यापुक् स्यादेवेति वाच्यम् ,