________________
प्रकरणम् ५२ ] बालमनोरमा-तस्वबोधिनीसहिता। [४१३ खण्डेशोपः, मौनन । मा भवानूननत् । वन १८९० शब्दे । भरध्वनत् । तत इति । नशम्दस्य द्वित्वानन्तरमुत्तरखण्डे अल्लोप इति भावः । अत्र नशब्दद्वित्वार्थमेव ऊनधातोरदन्तत्वं स्थितम् । फलान्तरं सूचयन्नाह मा भवान् ऊनन्मते आचारकिसन्ताद्दवनशब्दात्सनि दुदवनिषतीति स्यात् , तच्च नेष्यते, णौ स्थानिवद्भावस्य ज्ञापकमिति वार्तिकोक्तः । स्थानिवत्त्वेन प्रतिषेधेन वा णावेवाभ्यासे उकारेण भवितव्यम् । अतो वार्तिककारवचनादेव णो स्थानिवदिति खीकर्तव्यम् । तथा च न पूर्वोदाहरणेषु दोष इति दिक् । फलितमाह प्रकृते त्विति ।
औननदिति । 'नोनयति ध्वनयति-' इति चनिषेधस्त्विह न । तत्र छन्दसीत्यनु. वृत्त्या ‘मा त्वावतो जरितः काममूनयीः' इत्यादिवेदे एव तनिषेधात् । यद्यपि परि. निष्ठित एवावर्णपरत्वमित्याशयेन उवर्णादेश एव स्थानिवत्स्यामान्य इति वदतां बोपदेवादीना मते श्रौनिनदित्येव भाव्यम्, अवर्णादेशस्य स्थानिवत्त्वे तु परिनिष्ठितरूपे अवर्णपरत्वालाभात्तथापि अचिकीर्तदित्यादौ स्थानिवत्त्वमाशय उत्तरभागे अवर्णाभावादिति भाष्यकारोकपरिहारपर्यालोचनया उवर्णादेश एव स्थानिवदिति नियमो नास्तीयोननदिति रूपं निर्वाधमेव । किं च उवर्णादेश एवेति नियमे 'लोपः पिबते. रीचाभ्यासस्य' इति सूत्र अपीप्यदित्यत्र पिबतेो 'शाच्छासा-' इत्यादिना युकि चडि उपधालोपे तस्य स्थानिवत्त्वात्पाय्शन्दस्य द्वित्वमिति वृत्तिग्रन्थो विरुध्येत । अपि च 'शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथा' इति वैयाघ्रपद्यवार्तिकस्य औजढदिति प्रयोगोऽपि विरुध्येत । एतद्धि पूर्वत्रासिद्धमित्यस्य प्रयोजनकथनवार्तिकम् । तद्यथा-- शुष्किकेल्यत्र तु 'उदीचामातः-' इतीत्वविकल्पो न, 'शुषः कः' इति कस्वस्यासिद्धत्वेन यकपूर्वत्वाभावात् । शुष्कज त्यत्र कत्वस्यासिद्धत्वादेव 'न कोपधायाः' इति पुंषद्भावनिषेधो न । क्षामिमानित्यत्र तु 'मादुपधाया-' इति वत्वं न । 'चायो मः' इति मत्वस्यासिद्धत्वात् । बहेः वान्तारिणचि चङि औजढदित्यत्र ढत्वस्यासिद्धत्वागणी कृतस्य टिलोपस्य स्थानिवत्त्वाच ह्तशब्दस्य द्वित्वं 'कुहोश्चुः' 'अभ्यासे चर्च' । सन्वदित्वं तु मनग्लोपीति प्रतिषेधान भवति । एवं काशिकायामपि 'पूर्वत्रासिद्धम्' इति सूत्रे भौजढदित्युदाहत्य ऊढिमाख्यदौजिढदित्येतत्तु किमान्तस्य ऊढिशब्दस्य भवतीत्युक्तम्, तदपि विरुध्येत, उवर्णादेश एव स्थानिवदिति नियमे णौ कृतस्य टिलोपस्यात्र स्थानिवत्त्वाभावेन इतशब्दस्य तिशब्दस्य वा द्वित्वासंभवात् । एवं चाइधातोर्णिच्यलोपे चलि स्थानिवत्त्वात्कशब्दस्य द्वित्वे पाचकदिति रूपमेव सर्वसंमतं न त्वाधिक दिति बोपदेवोकृमिति बोध्यम् । नन्वचिकीर्तदित्यादौ स्थानिवत्वमाशयोत्तरभाग अवर्णाभावादिति वदन्भाष्यकारो न बोपदेवप्रन्यस्य प्रतिकूलः । उत्तरभागे परिनिष्ठित