________________
४१२]
सिद्धान्तकौमुदी। [ चुरादिपरिनिष्ठिते रूपे वाऽवर्णो लभ्यते तत्रैवायं निषेधः, ज्ञापकस्य सजातीयापेक्षस्वात् । तेन अचिकीर्तत् इति सिद्धम् । प्रकृते तु नशग्दस्य द्वित्वम्, तत उत्तरव्यर्थमेव । तयापि स्पष्टार्थ तदित्याहुः । नन्वभ्यासोत्तरखण्डा याद्योऽजवर्णो लभ्यते इत्यत्र किमवणों द्वित्वप्रवृत्तिवेलायां विवक्षित उत परिनि छेते रूपे विवक्षितः ? नाद्यः, क्षुधातोण्यन्तात् सनि चुक्षावयिषतीत्यत्र नु इत्यस्य द्वित्वे कृते अभ्यासोत्तरखण्डे प्रक्रियादशायामवर्णाभावेन वृद्धयावादेशयोनिषेधाप्रवृत्त्या द्वित्वात् प्रागेव परत्वाद् वृद्धयावादेशयोः क्षाव इत्यस्य द्वित्वे चिक्षावयिषतीत्य पत्तेः । न द्वितीयः, ऊन इ अत् इति स्थिते सति न इत्यस्य द्वित्वे अभ्यासोत्तः खण्डे अल्लोपे सत्यवर्णाभावेन णो अल्लोपस्य निषेधाप्रवृत्या द्वित्वात् प्रागेव पर वादतो लोपे सति नि इत्यस्य द्वित्वे श्रौनिनदित्यापत्तेरित्यत आह प्रक्रियायां परिनिष्ठित रूपेवेति । न त्वमुकत्रवेत्याग्रह इति भावः । सजातीये पुयएजाम् अभ्यास्त्तरखण्डे अवर्णपरत्वनियमादिति भावः । सिद्धमिति । प्रक्रियायां परिनिष्ट्रिते वउत्तर खराडे अवर्णाभावादत इत्त्वस्य न निषेध इति भावः एवं च चुदावयिषति इत्यत्र तु इत्यस्य द्वित्वे प्रक्रियादशायाम यासोत्तरखण्डे अवर्णाभावे परिनिष्टिते रूपे तत्सत्त्वाद् णौ गुणावादेशयोर्भवत्येव द्वित्वे कार्य निषेधः । औननादेयत्रापि णो भवत्येवाल्लोपस्य निषेध इत्याह प्रकृते विति । ननटि यत्रेयर्थः । नशब्दस्येति । अल्लोपात्प्रागेव नशब्दस्य द्वित्वाश्रयणे प्ररियादशा यामुत्तरखण्डे अवर्णलाभादल्लोपस्य निषेधे सति नशब्दस्यैव दिलं न तु निशब्दस्येति भावः । औजढत् औननदित्यादौ परिनिष्ठिते अवर्णस्यालाभादाह प्रक्रिया यामिति । चुक्षावयिषतीत्यादौ प्रक्रियायामवर्णो न लभ्यते इत्याह परिनिष्टिते रूप वेति । वाशब्दोऽनास्थायाम् । कचिदवर्णपरत्वं विवक्षितं न तु अमुकत्रै त्याग्रह इति भावः । सजातीयापेक्षत्वादिति । पुयराजीत्यभ्यासोत्तरखण्डे अवर्णपरा भवन्ति । अतस्तथैव ज्ञापकमित्यर्थः। अतएव भाष्यकृता पवईदेरन्यस्मिनपि हलि श्रवणपरे एव स्थानिवत्वमिति अचिकीर्तदित्यादौ नातिम्याप्तिरिति सिद्धान्तिरम् । ननु ‘ोः पुयरजि-' इति सूत्रे णिचि इति नास्ति, तथा च णिच्यच आशो न स्यादित्यर्थ कथमिदं ज्ञापकं भवेत् । न च सामान्यतो द्वित्वे कार्ये अच श्रादेशो न स्यादित्येव शाप्यतामिति वाच्यम् , दिदवनीविषति निनवयिषतीत्यादावभ्यान उक र श्रवण प्रसप्रादिति चेत् । अत्राहुः--येन नाव्यवधानमित्येकेन प्रत्ययेन द्वित्वनिमित्त प्रत्ययस्य ब्यबधानमाश्रीयते । तच्च णेरेव संभवतीति णिज्विषयकमेव ज्ञापकम् , दिदवनयिषती. यत्र तु ल्युटा क्यचा व्यवधानादनेकव्यवधानमिति न तद्विषयकं ज्ञ पनमिति । अस्मि.