________________
प्रकरणम् ५२] बालमनोरमा-तत्त्वबोधिनीसहिता। [४११ न स्याद् द्विस्वे कार्ये इति। यत्र द्विरुक्तावभ्यासोत्तरखण्डस्याथोऽच् प्रक्रियायां तदाश्रयणे तु बिभावयि प्रतीत्यादिषु णिचि लुप्ने सति 'चङि' इति द्वित्वे कार्ये प्रत्ययलक्षणमाश्रित्य णि चे गुणावादेशयोः प्रतिषेधे सति उवर्णान्तानां द्वित्वे अभ्यासे अकाराभावेन 'सन्यतः' इत्यस्याषवृत्त्या वर्गप्रत्याहारजकारग्रहणमर्थवत् । अतः द्वित्वे कार्य रणावच आदेशो नेति विज्ञायत इत्यर्थः । ननु ‘कृत संशब्दने' अस्माद् णौ 'उपधायाश्च' इति ऋत इत्वे रपरत्वे कि इत्यस्मात् लुङि चडि णिलोपे द्वित्वे हलादिशेषे कस्य चुत्वे उत्तरखण्डे इकारस्य 'उपधायां च' इति दीर्घ अचिकीर्तदिति रूपमिष्यते। तन्न युज्यते, द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतया इत्त्वात्प्रागेव कृत् इत्यस्य द्वित्वे, उरदत्त्वे, रपरत्वे, हलादिशेत्रे, कस्य चुत्वे, उत्तरखण्डे, ऋत इत्त्वे, २परत्वे, उपधादीघे, अचकीर्तदित्यापत्तेरित्यत आह यत्र द्विरुक्तावित्यादि । पत्र धातौ चडि द्विवचने कृते अभ्यासोत्तरखण्डस्य आद्योऽच् अवर्णो लभ्यते तत्रैव द्वेत्वे कार्ये णावच आदेशो नेत्ययं निषेध इत्यन्वयः । यद्यपि धातोरवयवस्य एकाचो द्वित्वे कृते अभ्यासोत्तरखण्डे द्वितीयस्याचोऽभावादायोऽजिति फलं तु अबीभवत् अमामवत् अरीरवत् अलीलवत् अजीजवत् बिभावयिषति मिमावरिषति रिरावयिषति लिलावयिषतीत्यादिरूपसिद्धिरिति वाच्यम् । तद् दुरुपपादम् । णिचि परत्वादन्तरङ्गत्वच्छ वृख्यादौ कृते द्वित्वे सत्यभ्यासे उवर्णस्य दुर्लभवादकारस्य 'सन्यतः' इतीत्वेन रूप सेद्धेश्च । ततो वर्गादिग्रहणं व्यर्थ सदुक्कार्थे ज्ञापकमिति भावः। ज्ञापनफलं तु यत्र 'ओः पुयरिज-' इत्यस्याप्राप्तिस्तत्र बोध्यम् । तद्यथा-चुक्षावयिषति । चकि अचुक्षरत् । उड्डरिवाचरति उडवति । 'सर्वप्रातिपदिकेभ्यः-' इत्याचारे किप तदन्ताद्धातोयौँ स्न् । उडुडावयिषति । चलि पौडूडवत् । तु इति सौत्रो धातुस्ततो णौ सन् । तुतावयिषति । चहि अतूतवत् । नुनावविषति । अनूनवत् । पुस्फारयिषति । अपुस्फुरत् । 'चिस्फुरोण' इति वा प्रात्वम् । अपुस्फरदित्यादिष्वभ्यासे उकारश्रवणं भवति शापनात्, अन्यथा चिक्षावयिवतीत्यादि प्रसज्येत । तदेतत्सकलमभिप्रेत्य बार्तिककृतोक्लम् 'ओः पुयजिषु वचनं ज्ञापकं णौ स्थानिवद्भावस्य' इति । स्थानिवद्वाबः प्रतिषेधस्याप्युलक्षणम् । अब आदेशो न स्यादिति । प्रतिषेधपचो मुख्य इत्यभिप्रेत्येदमुक्तम् । प्रतिषेधः स्थानिवद्रावस्याप्युपलक्षणमिति बोध्यम् । नन्वेवं कृत संशब्दन इति धातोर्णी चकि इरादेशात्प्रागेव कृत इत्यस्य द्वित्वे उरदत्वे च अचकीर्तदिति स्यान तु अचिकीर्तदित्यत माह यत्र द्विरुक्काविति । प्रायोजिति । चङ्सहितस्योत्तरखण्डत्वमभ्युपेत्येदमुक्तम् । अन्ये तु पाद्यग्रहणं स्पष्टप्रतिपत्त्यर्थ धातोरवयवस्येकाचो द्वित्वे सत्यभ्यासोत्तरखरडे अज्दयासंभवादित्याहुः।