________________
४१० ]
सिद्धान्तकौमुदी ।
[ चुरादि
इति सूत्रे पययोरिति वक्तव्ये वर्गप्रत्याहारजकारग्रहो लिङ्गं 'विश्चि श्रच श्रादेशो योरित्येव वक्तव्ये पु इति पवर्गस्य यरिणति प्रत्याहारस्य जकारस्य च ग्रहणं लिङ्गमित्यन्वयः । कुत्र लिङ्गमित्यत आह रिचीत्यादि । द्वित्वे कर्पे गिज्निमित्तकः श्रच देशो न स्यादित्यत्र लिङ्गमिति पूर्वेणान्वयः । तथाहि 'ओ पुनराज्यपरे' इति सूत्रम् । सनि परे यदङ्गं तदवयवाभ्यासोवर्णस्य इकारः स्याद् यवपरकेषु पवर्गयराजकारेषु परत इति तदर्थः । पूङ् पिपावयिषति, भू विभावयेषति, यु यियावयिषति, रुरिरावयिषति, लूञ् लिलावयिषति, जु जिजावयिषति इत्युदाहरणानि । अत्र द्वित्वं प्रत्यनिमित्ते णिचि 'द्विर्वचनेऽचि' इति निषेधात् द्वित्वात् प्रागेव परत्वाद् वृद्धयावादेशयोः कृतयोः अभ्यासेध्वाकारस्य ह्रस्वे सति 'सन्यतः' इत्येव इस्वसिद्धेः पवर्गयर प्रत्याहारजकार ग्रहणं व्यर्थम् । पकारयकारग्रहणं तु न व्यर्थम् । पिपावयिषति यियावयिषतीत्यत्र उक्तरीत्या 'सन्यतः' इति इत्वरि द्वावपि पिपविषते यियविषतीत्यत्र पूङ्घातोर्युधातोश्च श्ररयन्तात् सनि अभ्यासे इस्वार्थं तदावश्यकत्वात् । तत्र हि 'इको झल्' इति सनः कित्त्वात् 'श्रूयुकः किति' इ ते प्राप्तमिशिनषेधं बाधित्वा 'स्मिपूब्र्ज्ज्वशां सनि' इति 'सनीवन्तर्द्धभ्रस्जदम्भुत्रिस्वयूर्गुभर ज्ञपिसनाम्' इति च सूत्राभ्यामिटि कृते इडादेः सनो द्वित्वनिमित्तत्वेन इटोsपि द्वित्वनिमित्ततया ‘द्विर्वचनेऽचि' इति गुणावादेशयोर्निषेधे सति पू. यु इत्यन्योर्द्वित्वे अभ्यासे अकाराभावेन 'सन्यतः' इत्यस्याप्रवृत्या तत्र इत्स्वार्थ पययोरित्यावश्यकम् । वर्ग'प्रत्याहारजकाप्रहणं तु 'द्वित्वे कार्ये गावच प्रदेशो न' इत्यनाथ यो व्यर्थमेव ।
धातुद्वयं प्रयोगे वर्तते । प्रयोगश्च सान्त्वप्रयोगपरः । स च सान्त्वनमेवेत्येवं प्रन्थकाराशयं वर्णयित्वा स्थितस्य गतिं समर्थयन्ते । गवेष | मार्गणमन्त्रेषणम् । ऊन परिहाणे । श्रस्मारणौ चरि द्वित्वात्परत्वादन्तरङ्गत्वाच्च श्रल्लोपेन 'अजादेर्द्वितीयस्य' इति णिचा सह द्वित्वे श्रनिनादित्यनिष्टं प्रसज्येत, किं तु श्रननदिवं रूपमिष्टम् । तच नशब्दस्य द्वित्वं विना न संभवति । न च 'द्विर्वचनेऽचि' इति सूत्रेण द्वित्वे कर्तव्ये अल्लोपस्य स्थानिवद्भावानिषेधाद्वा नशब्दस्य द्वित्वं सिध्यतीति वाच्यम्, णिचो द्वित्वनिमित्तत्वाभावादत आह श्रोः पुयणजीत्यादि । संपूर्णसूत्रं लिङ्गमिति केषां - चिद् भ्रमं निवर्तयितुमाह पययोरिति । श्रयं भावः -- 'स्मिपुङ्· रुज्वशा सनि', 'सनीवन्तर्ध-' इति सूत्राभ्यां पूज्यौतिभ्यां परस्य सन इडागमे कृते 'द्विर्वचनेऽचि' इति स्थानिवद्भावादादेशनिषेधाद्वा उवर्णान्तस्यैव द्वित्वमिति पुपविषते युयविषतीत्यनिष्टं प्रसज्येत। ततश्चाभ्यासोवर्णस्येत्वार्थ पययोरित्यपेक्षितम् । श्रन्यथा पिपबिषते यियविषतीति न सिध्येदिति । वर्गप्रत्याहारेति । पुयाजीति वर्गादिप्रहण