________________
प्रकरणम् ५२] बालमनोरमा-तत्त्वबोधिनीसहिता। [१०६ खोट इत्यन्ये । चोट १८७६ क्षेपे। गोम १८७७ उपलेपने। मजुगोमत् । कुमार १८७८ क्रीडायाम् । अचुकुमारत् । शील १८७६ उपधारणे । उपधारणमभ्यासः । साम १८८० सान्त्वप्रयोगे । प्रससामत् । साम सान्त्वने इत्यतीतस्य तु असीषमत् । वेल १८८१ कालोपदेशे । वेल्लयति । काल इति पृथग्धातुरित्येके । कालयति । परपूल १८८२ लवनपवनयोः । वात १८८३ सुखसेवनयोः। गतिसुखसेवनेषु इत्येके । वातयति । अववातत् । गवेष १८८४ मार्गणे । अजगवेषत् । वास १८८५ उपसेवायाम् । निवास १८८६ माच्छादने । भाज १८८७ पृथकर्मणि । सभाज १८८८ प्रीतिदर्शनयोः । प्रीतिसेवनयोरित्यन्ये । सभाजयति । ऊन १८८६ परिहाणे । उनयति । 'मोः पुयपिज-' (सू २५७७) साम सान्त्वप्रयोगे । सान्त्वप्रयोगः अकटुभाषणम् । अससामदिति । अल्लोपस्य स्थानिवत्त्वानोपधाह्रस्वः । ननु साम सान्त्वने इति कथादेः प्राक् चुरादौ पाठो व्यर्थः अनेनैव सिद्धरित्यत आह साम सान्त्वन इत्यतीतस्य तु असीषमदिति । पूर्वपठिते सामधातौ मकारादकारस्य उच्चारणार्थतया उपधाह्रस्वः दीर्घसन्वत्त्वे चेत्यर्थः । यद्यपि साम सान्त्वप्रयोगे इत्येव प्राक् चुरादौ पठितम्, तथापि सान्त्वनस्य सामप्रयोगादनन्यत्वात्तथोक्किरिति भावः । गवेष मार्गणे । मार्गणम् अन्वेषणम् । चढि अल्लोपस्य स्थानिवत्त्वान्नोपधाहस्वः, तदाह अजगवेषदिति । निवास आच्छादने । अनिनिवासत् । ऊन परिहाणे । परिहाणं न्यूनीभावः । ऊनयतीति । णावतो लोप इति भावः । ननु लुङि चलि ऊन इ अ त् इति स्थिते णिलोपे 'चठि' इत्यजादेद्वितीयस्य नशब्दस्य द्वित्वे अतो लोपे अग्लोपित्वेन सन्वत्त्वाभावादभ्यासे इत्त्वदीर्घयोरभावे पाटो वृद्धौ औननदिति रूपं वक्ष्यति । तदनुपपनम्, द्वित्वात्प्रागेव परत्वादतो लोपे कृते निशब्दस्य द्वित्वे औनिनदित्येवमभ्यासे इकारश्रवणप्रसनात् । न च द्वित्वे कार्ये अतो लोपस्य "द्विवचनेऽचि' इति निषेधः शकुयः, अझोपनिमित्तस्य णिचो द्वित्वनिमित्तत्वाभावाद् इत्यत आह ओः पुयराजीत्यादि । 'ओः पुयराज्यपरे' इति सूत्रे श्रोः पययोरपर• तत्र कृपू सामर्थ्य इत्यस्य प्रहणात् , कृपप्रकृतिकणिजन्तस्य तु धात्वन्तरत्वात् । स्पृह।
आप्तुमिच्छा ईप्सा। अबभामदिति । अल्लोपस्य स्थानिवत्त्वाद् 'णौ चकि-' इत्युपधाहखो न । सूच । पिशुनो दुर्जनस्तस्य कर्म पैशुन्यम् । अषोपदेशत्वादिति । अनेकाच्त्वादिति भावः । साम सान्त्वन इत्यतीतस्य त्विति । अयं तु धातुरितः प्राङ् मूलपुस्तके न कुत्रापि दृष्टः पुस्खकान्तरेषु मृग्यः । केचित्तु साम सान्त्वने इत्यस्य काप्यपठितत्वेऽपि षान्त्व सामप्रयोगे इति प्राक्पठितमेव । तत्र च षान्त सामेति