________________
प्रकरणम् ५२ ]
बालमनोरमा-तत्त्वबोधिनीसहिता
[ ४०७
अथादन्ताः । कथ १८५२ वाक्यप्रबन्धे । अलोपस्य स्थानिवद्भावान वृद्धिः । कथयति । अग्लोपिस्वाच दीर्घसन्वद्भावो । अचकथत् । वर १८५३ ईप्सायाम् । वरयति । वारयतीति गतम् । १८२४ संख्याने । गणयति । २५७३ ई च गणः । ( ७-४-६७ ) गणेरम्यासस्य ईत्स्याच्चङ्परे णौ । चादत् ।
अथादन्ता इति । वक्ष्यन्ते इति शेषः । अन्ते अकारो नेत्संज्ञकः, नाप्युचारणार्थ इति भावः । तत्र कथधातोर्णिचि श्रतो लोपे कथि इत्यस्मात् तिपि शपि गुणे अयादेश कथयतीति रूपं वक्ष्यति । तत्र रिणचमाश्रित्य उपधावृद्धिमाशङ्कयाह अलोपस्य स्थानिवद्भावादिति । 'अचः परस्मिन् -' इत्यनेनेति भावः । अत्रेदमवधेयम् । स्थानिनि सति शास्त्रीयं यत्कार्य तदेव स्थानिवदादेशोऽनल्विधावित्यत्रातिदिश्यते । यत्तु स्थानिनि सति निमित्तव्याधातान्न भवति तस्याभावस्य अशास्त्रीयत्वान्नातिदेशः । अन्यथा नायक इत्यत्र ईकारस्थानिकस्य ऐकारस्य श्रायादेशानापत्तेः । ईकारे स्थानिनि सति श्रयभावस्य दृष्टत्वेन तस्याप्यैकारे प्रतिदेशप्रसङ्गात् । 'अचः परस्मिन् -' इत्यत्र तु स्थानिनि सति यत् शास्त्रीयं कार्यं प्रसज्यते तस्य, तदभावस्य चाशास्त्रीयस्याप्यतिदेश इति भाष्ये स्पष्टम् । श्रतोऽत्र थकारादकारे सति प्रसक्तस्य उपधावृद्धयभावस्य शास्त्रीयत्वेऽप्यतिदेश इति सिद्धम् । लुङि चङि अचकथत् इत्यत्र सन्वत्स्त्वमाशङ्कयाह अग्लोपित्वादिति । सन्वत्त्वत्रिषये जायमानोऽभ्यासदीर्घः सन्वत्त्वं नापेक्षत इति पृथगुक्तिः । एवं वरादौ सर्वत्र ज्ञेयम् । गण संख्याने । च िल्लोपस्य स्थानिवत्त्वात् दीर्घसन्वद्भावयोरभावे श्रजगणदित्येव प्राप्ते आह ई च गणः । ' सन्बल्लघुनि -' इत्यतः चङ्परे इति, 'अत्र लोपः -' इत्यतः अभ्यासस्येति चानुवर्तते, तदाह गणेरभ्यासस्येति ।
मिति चेत् । अत्राहुः — प्रादित्साहचर्यादादित एव त्रिधृषेत्यस्य तत्र प्रहणात् । न च आदितो निष्ठाया इड् दुर्लभ इति शङ्खयम् । 'विभाषा भावादिकर्मणोः' इति तत्संभवादिति । इत्याषीया युजादयः । अथादन्ता इति । वक्ष्यमाणेषु धातुषु अन्त्यावयवोऽकारो न तुच्चारणार्थ इत्यर्थः । स्थानिवस्वान्न वृद्धिरिति । 'मचः परस्मिन् -' इति सूत्रेणेत्यर्थः । न च स्थानिनि सति यत्कार्यं तदेव स्थानिवदित्यनेनातिदिश्यते न त्वादेशप्रयुक्तं वार्यते । अन्यथा नायकः पावक इत्यादि न सिध्येदिति वृद्धिरत्र दुर्वारेति वाच्यम्, 'अचः परस्मिन्' इत्यत्र स्थानिवदित्यनुवर्त्य शब्दाधिकारपक्षाश्रयेण भावाभावावुभावप्यतिदिश्येते इति सिद्धान्तात् । स्थानिनि सत्यभवन्त्या वृद्धेरादेशेऽप्यभावात् । स्थानिनि सति यन्न भवति तदादेशेऽपि न भवतीत्यत्र तु 'न पदान्त-' इति सूत्रस्थयलोपादिप्रहृणमेव लिङ्गमिति दिक् । ई गणः ।