________________
प्रकरणम् ५२ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ४०५
1
1
1
1
च । ज्राययति, ज्रयति । जेता । रिच १८१७ वियोजनसम्पर्चनयोः । रेचयति, रेचति । रेक्ला । शिष १८१८ असर्वोपयोगे । शेषयति, शेषति । शेष्टा । अशिसत् । श्रयं विपूर्वोऽतिशये । तप १८१६ दाहे । तापयति तपति । तप्ता । तृप १८२० तृप्तौ । 'संदीपने' इत्येके । तर्पयति तर्पति । तर्पिता । हृदी १८२१ संदीपने । छर्दयति, छर्दति । छर्दिता । छर्दिष्यति । 'सेऽसिचि - ' ( २५०६ ) इति विकल्पो न । साहचर्यात्तत्र रौधादिकस्यैव ग्रहणात् । चूप छप डप सन्दीपने इस्बेके । चर्पयति । छर्पयति । इभी १८२२ भये । दर्भयति, दर्भति । दर्भिता । इभ १८२३ संदर्भे । अयं तुदादावीदित् । श्रथ १८२४ मोढणे । हिंसायामित्येके । मी १८२५ गतौ । माययति, मयति । मेता । ग्रन्थ १८२६ बन्धने । ग्रन्थयति, प्रन्थति । शीक १८२७ श्रमर्षणे । चीक १८२८ च । श्रर्द १८२६ हिंसायाम् । स्वरितेत् । श्रर्द्धयति, अर्दति, अर्दते । हिसि १८३० हिंसायाम् । हिंसयति, हिंसति । हिनस्ति इति श्रमि गतम् । भर्ह १८३१ पूजायाम् । चाङः षद् १८३२ पद्यर्थे । प्रासादयति, प्रसीदति । 'पाघ्रा-' ( सू २३६० ) इति सीदादेशः । आसत्ता । श्रसात्सीत् । शुन्ध १८३३ शौचकर्मणि । शुन्धिता । अशुन्धीत् अशुन्धिष्टाम् । छद १८३४ अपवारणे । स्वरितेत् । जुष १८३५ परितर्कणे । परितर्कणमूहो हिंसा वा । परितर्पणे इत्यन्ये । परितर्पणं परितृप्तिक्रिया । जोषयति, जोषति । प्रीतिसेवनयोर्जुषत इति तुदादौ । धूञ् १८३६ कम्पने । णावित्यधिकृत्य 'धून्प्रीञोर्नुग्वक्तव्यः' ( वा ४५१६ ) । धूनयति, धत्रति, धवते । केचित्तु 'धून्प्रीणो:-' इति पठित्वा प्रीणातिसाहचर्याद् धुनातेरेव नुकमाहुः । धावयति । श्रयं स्वादौ क्रयादौ तुदादौ च स्वादौ हस्वश्व तथा च
9
1
गुणः । ‘न लिङि' इति इटो न दीर्घः । श्रवृत । ज्रि चेति । हस्वान्तोऽयम् । रिच वियोजन इति । अनिडयम् । ततश्च णिजभावपक्षे नेट्, तदाह रेक्तेति । शिष सर्वेति । श्रयमप्यनिट्, तदाह शेष्टेति । अशिक्षदिति । 'शल इगुपधात् -' इति क्सः । श्रयं विपूर्वोऽतिशयः इति । वर्तते इति शेषः । श्रयमस्माद्विशिष्ट इत्यत्र अधिक इति गम्यते । तृप तृप्ताविति । अनिट्सु श्यना निर्देशादयं से, तदाह तर्पितेति । हृदी संदीपन इति । ईदित्त्वं निष्ठाया
अवारिषुः। 'सिचि च परस्मैपदेषु' इति दीर्घनिषेधः । श्रात्मनेपदे तु । अवरिष्ट । अवरीष्ट । इडभावे सिचो लोपः । श्रवृत । रिच । णिजभावे अयमनिडित्याह रेक्तेति । प्रशिक्षदिति । 'शल इगुपधात् -' इति क्सः । तृप । श्रनिट्सु श्यना निर्देशादयं सेडिति ध्वनयति तर्पितेति । हृदी । ईदित्वान्निष्ठायामनिट् । ऋवर्णा