________________
४०२]
सिद्धान्तकौमुदी। [चुरादि निकारोपस्कारयोः । रक १७३७ लग १७३८ मास्वादने । रघ इस्येके । रग इत्यन्ये । अम्बु १७३६ विशेषणे। प्रशयति । उदित्त्वमिड्विकल्पार्थम् । अत एव विभाषितो णिच् । प्रशति । एवं शृधुजसुप्रभृतीन मपि बोध्यम् । लिगि १७४० चित्रीकरणे । लिङ्गयति, लिङ्गति । मुद १७४१ संसर्गे। मोदयति सक्तून्घृतेन । स १७४२ धारणे । ग्रहणे इत्येके । वारणे इत्यन्ये । उध्रस १७४३ उम्छे । उकारो धास्ववयव इत्येके । नेत्यन्ये । ध्रासयति। ध्रसति । उध्रासयति । मुच १७४४ प्रमोचने मोदने च । वस १७४५ स्नेहच्छेदापहरणेषु । चर १७४६ संशये । प्यु १७४७ सहने । हसने चेत्येके । च्यावयति । ब्युस इत्येके । ज्योसयति । भुवोऽवकल्कने १७४८ । अवकल्कनं मिश्रीकरणमित्येके । चिन्तन मित्यन्ये । भावयति । कृपेश्च १७४६ कल्पयति । "प्रा स्वदः सकर्मकात्' (ग सू २०१) स्वदिमभिग्याप्य संभवत्कर्मभ्य एव च । प्रस १७५० ग्रहणे । ग्रासयति फलम् । पुष १७५१ धारणे । पोषयत्याभरणम् । दल १७५२ विदारणे । दालयति । पट १७५३ पुट १७५४ लुट १७५५ तुजि १७१६ मिजि निकारेति । तालव्यान्तःस्थादिः। यत्नो वा प्रैषो वा निकार । यातयति । अयीयतत् । अञ्चु विशेषण इति । व्यावर्तने इत्यर्थः । उदित्त्वमिति । 'उदितो वा' इत्यण्यन्तात् क्त्वायामिड्विकल्पार्थमित्यर्थः। ण्यन्तात्तु णिचा व्यवधानाद् इड्विकल्पस्य न प्रसक्तिरिति भावः । नन्वस्य नित्यण्यन्तत्वादण्यन्तत्वम् असिद्धमित्यत श्राह अत एवेति । च्यु सहन इति । च्यावयति । अचुच्रवत् । भुवोऽवकल्कने इति । अवकल्कनवृत्तभूधातोर्णिच् स्यादित्यर्थः । कृपेश्चेति । अवकल्कनवृत्तेः कृपेः णिच् स्यादित्यर्थः । कल्पयतीति । 'कृपो रो लः' इति लत्वम् । आस्वदः सकर्मकादिति । श्राभिविधौ, तदाह स्वदिमभिव्याप्येति । तत्र 'प्वद प्रास्वादने' इत्यस्य अकर्मकत्वादाह संभवत्कर्मभ्य इति । इत प्रारभ्य पादपे चाप्युपस्कृती। नित्योऽयं धान्यधनयोः प्रतिदाने' इत्युक्तम् । श्रस्यार्थः--यन्नाद्यर्थेषु चतुर्षु यतधातुं प्रयुञ्जीत । निसः परभागे चेत्प्रयुज्यते तदाऽयं धान्यधनयोः प्रतिदाने च वर्तत इति । ऋणं निर्यातयति । प्रतिददातीत्यर्थः । अञ्चु विशेषणे। विशेषणं व्यावर्तनम् । 'भुवोऽवकल्कने'। भूधातोणिच् स्यात् । भावयतीति । मिश्रीकरोति चिन्तयति वेत्यर्थः । कृपेश्च । कृपेणिच् स्यादवकल्कने । प्रास्वदः । अभिव्याप्येति । आकुस्मादिति पूर्वत्र श्राधृषादागर्वादिति परत्र च श्राडोऽभिविध्यर्थतायाः सर्वसंमतत्वेन तन्मध्यपतितेऽत्रापि तथैव व्याख्यानमुचितमिति भावः । अन्ये त्वापर्वकात्स्वदः सकर्मकारिणजिति म्याचख्युः । श्रास्वदीयेषु धातवः सर्वे