________________
४०० ]
सिद्धान्तकौमुदी। [ चुरादिकाणयति । 'णौ चड्यपधाया हस्वः' (सू २३१४) 'कारयादीनां वा' (वा ४६१३) इति विकल्प्यते । अचीकणत् , अचकाणत् । जभि १७१७ नाशने । जम्भयति, जम्भति । पूद १७१८ क्षरणे । सूदयति । प्रसूषुदत् । जसु १७१६ ताडने । जासयति, जसति । पश १७२० बन्धने । पाशयति । श्रम १७२१ रोगे । पामयति । 'नान्ये मित-' इति निषेधः । प्रम गत्यादौ शपि गतः। तस्माद्धेतुमरणो 'न कम्यविचमाम्' इति निषेधः। श्रामयति । चट १७२२ स्फुट १७२३ भेदने । विकासे शशपोः स्फुटति स्फोटते इत्युक्रम् । घट १७२४ सङ्घाते । घाटयति । 'हन्त्यर्थाश्च' ( ग सू २००)। नवगण्यामुक्का अपि हन्त्याः स्वार्थे णिचं लभन्ते इत्यर्थः । दिवु १७२५ मर्दने । उदित्वाद्देवतीत्यपि अर्ज १७२६ प्रतियत्ने । अयमर्थान्तरेऽपि द्रव्यमर्जयति । घुषिर् १७२७ विशब्दने । घोष. यति । 'घुषिरविशब्दने' (सू ४०६३ ) इति सूत्रे 'अविशब्दने' इति निषेधा लिङ्गादनित्योऽस्य णिच् । घोषति । इरित्वादङ्वा । अधुषत् , अघोषीत् । पृथगुक्तिः। शब्द आविष्कारे चेत्येतावत्येवोक्ने अनुपसर्गाद्भाषगाऽपि स्यात् , तदाह
आविष्कारे इत्येवेति । काण्यादीनामिति । इदं वार्तिक 'भ्राजभासभाष-' इति सूत्रे भाष्ये पठितम् । 'काणि राणि श्राणि भाणि हेठि लोपयः षट्कारयादयः' इति भाष्यम् । अचीकणदिति । ह्रस्वत्वपक्षे लघुपरत्वाद यासस्य सन्वत्त्वमिति भावः । शशपोरिति । शविकरणे शब्विकरणे चेत्यर्थः । हन्त्यर्थाश्चेति । गणसूत्रमिदम् । हन हिंसागत्योरिति हनधातोहिंसा गमनं चार्थः । एतदर्थकाः ये धातवो भ्वादिषु नवसु गणेषु पठिताः ते सर्वेऽपि चुरादौ पठिताः प्रत्येतव्या इत्यर्थः । ततश्च तेभ्यः स्वार्थे णिजपि पक्षे भवतीति फलितम् , तदाह नवगण्यामित्यादि। दिवु मर्दने । उदित्वादिति । उदित्करणम् ‘उदितो वा' इति क्त्वायामिड्. विकल्पार्थम् । यूत्वा, देवित्वा । इडभावे ऊन् । इटि तु 'न तना सेट्' इति कित्त्वनिषेधाद् गुण इति स्थितिः । अस्य नित्यण्यन्तत्वे सति णिचा व्यवहितत्वेन त्वा. यामिड्विकल्पस्य अप्रसक्तेरुदित्करणं व्यर्थ सज्ज्ञापयति अस्य दिवुधातोः णिज्वि. कल्प इतीति भावः । घुषिर् विशब्दने । विशब्दनं शब्देन स्वाभिप्रायाविष्करणं प्रतिज्ञानं च । भ्वादौ त्वयं धातुरविशब्दनार्थकः पठितः। घोषयतीति । शब्देन लने । एकनेत्रनिमीलन एवायं शब्दः स्वभावात् । काणः। काण्यादीनामिति । एते हेतुमएण्यन्तेषु वक्ष्यन्ते। हन्त्यर्थाश्च । तेन घातयति हन्तीत्येतौ समानायौँ । अर्ज। प्रतियनो गुणाधानम् । अर्जयतीति । संगृह्णातीत्यर्थः । घुषिर् । अविशब्दनं प्रतिज्ञानम् । निषेधाल्लिङ्गादिति । घुषिरविशब्दन इति सूत्रेण अवि