________________
प्रकरणम् ५२] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६६
सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे ।
विन्दते विन्दति प्राप्तौ श्यन्लुक्नम्शेविदं क्रमात् ॥ मान १७१० स्तम्भे । मानयते । यु १७११ जुगुप्सायाम् । यावयते । कुस्म १७१२ नाम्नो वा (ग सू १६६ ) । कुस्म इति धातुः कुत्सितसयने वर्तते । कुस्मयते । अचुकुस्मत । अथवा कुस्म इति प्रातिपदिकम् । ततो धास्वर्थे णिच् । इत्पाकुस्मीयाः । चर्च १७१३ अध्ययने । बुक्क १७१४ भषणे । शब्द १७१५ उपसर्गादाविष्कारे च । चाडाषणे । प्रतिशब्दति । प्रतिश्रुतमाविष्करो. तीत्यर्थः । अनुपसर्गाश्च प्राविष्कारे इस्येव । शब्दयति । कण १७१६ निमीखने सत्तायां विद्यते इत्यादिश्लोकेन । कुस्म नानो वा । गणसूत्रम् । कुस्मेति पृथक्पदम् अविभक्तिकम् , तदाह कुस्म इति धातुरिति । कुत्सितस्मयने वर्तते इति शेषपूरणं व्याख्यानादिति भावः । कुस्मयते इति । श्राकुस्मीयत्वादकरेंगेऽपि फले आत्मनेपदम् । आकुस्मादात्मनेपदिन इत्यत्र अाङभिविधावित्याश्रयणादिति भावः। अचुकुस्मतेति। उकारस्य गुरुतया अभ्यासस्य लघुपरकत्वाभा. वान्न सन्वत्त्वमिति भावः । नानो वेत्यंशं व्याचष्टे अथवेति। नाम प्रातिपदिकम् , तस्माद्वा णिज्भवतीत्यर्थः । तच्च प्रातिपदिक कुस्मशब्दात्मकमेव गृह्यते प्रत्यासत्त्या। तथा च कुस्मेति धातोः कुस्मेति प्रातिपदिकाद्वा णिजिति फलितम् । तत्र धातोः णिचः स्वार्थिकत्वमभिप्रेत्य प्रातिपदिकाद् णिचि विशेषमाह तत इति । तस्मात् प्रातिपदिकादित्यर्थः । धात्वर्थे इति । करोतीत्यर्थे श्राचष्टे इत्यर्थे वेत्यर्थः । न च 'तत्करोति तदाचष्टे' इत्येव प्रातिपदिकात् णिच् सिद्ध इति वाच्यम्, 'आकुस्मादास्मनेपदिनः' इत्यात्मनेपदनियमार्थत्वात् । इत्याकुस्मीयाः। शब्द उपसर्गादिति । उपसर्गात्परः शब्दधातुः अाविष्कारे वर्तते इत्यर्थः । अनुपसर्गाश्चेति । अनुपसर्गात्परोऽपि शब्दधातुः णिचं लभते इत्यर्थः । आविष्कारे इत्यस्यैवानुवृत्त्यर्थ वक्त्वा । 'वञ्चिलुच्युतश्च' इति सेटः क्त्वः कित्त्वविकल्पनात् पाक्षिको नलोपः । इडभावे तु नित्यम् । निष्ठायां तु वक्तम् । 'यस्य विभाषा' इतीसिनषेधो नानो वेति वाशब्दं व्याचष्टे अथ वेति । प्रातिपदिकमिति । 'अन्येष्वपि दृश्यते' इति सूत्रे अन्यभ्योऽपीति वक्ष्यमाणत्वात्कुपूर्वात्स्मयतेर्डप्रत्यये टिलोपे 'कुगति-' इति समासे च निष्पन्नमित्यर्थः । यद्यपि कुपूर्वस्य स्मिङो लडादिषु कुस्मयते इत्यादि सिद्ध तथापि प्रकुस्मयते इत्यादि न सिध्येदुपसर्गस्य धातुना व्यवधानायोगात् । कुस्मयांचक्रे इत्याद्यर्थमपि कुस्मेति पाठोऽर्थवान् । इत्याकुस्मीयाः। चर्च। सर्वोऽपि चुरादिणिच् पाक्षिक इति पक्षे । 'गुरोश्च हलः' इत्यप्रत्ययः। चर्चा। कण निमी