________________
३६६ ]
सिद्धान्तकौमुदी ।
[ चुरादि
1
घट्ट १६३१ चलने । मुस्त १६३२ सङ्घाते । खट्ट १६३३ संवरणे । वह १६३४ फिट्ट १६३५ बि १६३६ हिंसायाम् । पुल १६३७ सङ्घाते । पूर्ण इत्येके । पुण इत्यन्ये । पुंस १६३८ अभिवर्धने । टकि १६३६ बन्धने । टङ्कयति, टङ्कति । धूस १६४० कान्तिकरणे । धूसयति । दन्त्यान्तः । मूर्धन्यान्त इत्येके । तालव्यान्तः इत्यपरे । कीट १६४१ वर्णे । चूर्ण १६४२ संकोचने । पूज १६४३ पूजायाम् । श्रर्क १६४४ स्तवने । तपने इत्येके । शु १६४५ श्रालस्ये । शुठि १६४६ शोषणे । शुण्ठयति, शुण्ठति । जुड १६४७ प्रेरणे । गज १६४८ मार्ज १६४६ शब्दार्थौ । गाजयति । मार्जयति । मर्च १६५० च । मयति । घृ १६५१ प्रस्रवणे । स्स्रावणे इत्येके । पचि १६५२ विस्तारवचने । पञ्चयति । पञ्चते इति व्यक्तार्थस्य शपि गतम् । तिज १६५३ निशाने । तेजयति । कृत १६५४ संशब्दने । २५७१ उपधायाश्च । ( ७ - १ - १०१ ) धातोरुपधाभूतस्य ऋत इत्स्यात् । रपरत्वम् । 'उपधायां च ' ( सू २२६५ ) इति दीर्घः । कीर्तयति । 'उर्ऋत्' ( सू २५६७ ) अचीकृतत् अचिकीर्तत् । वर्ध १६५५ छेदनपूरणयोः । कुत्रि
"
अालोचने श्रम रोगे इत्यादीनामग्रे चुरादौ पठिष्यमाणानामित्यर्थः । श्रमन्तत्वेति 'जनीजृष्वनसुरजोऽमन्ताश्च' इत्यमन्तत्वनिमित्तकमित्यर्थः । कृत संशध्दन । उपधायाश्च । 'ऋत इद्धातो:' इत्यनुवर्तते, तदाह धानोरित्यादिना चत्वि 'उऋत्' इत्युपधाया ऋत्त्वपक्षे आह अचीकृतदिति । उपधाया वे कृत् इत्यस्य द्वित्वे उरदत्त्वे लघुपरतया सन्वत्त्वादित्त्व 'दीर्घो लघोः' इति दीर्घ इति भावः । ऋत्त्वाभावपक्षे यह अचिकीर्तदिति । हृत इत्वं रपरत्वे 'उपधायां च' इति दीर्घे कीर्त इत्यस्य द्वित्वे हलादिशेषे अभ्यासहखे कुत्वमिति भावः । लघुपरकत्वाभावेन सन्वद्भावविषयत्वाभावान्नाभ्यासदीर्घः 1
दिभ्य इति । मुख्यमते पञ्च ज्ञपादयः । मतान्तरे तु सप्त । पूर्णइत्येके । पूणेत्यन्ये इति । ईदृशेषु पाठशुद्धिर्निर्णेतुमशक्या । श्रतएव क्षीरस्वाभिनोक्तम् — 'पाठेऽर्थे चागमभ्रंशान्महतामपि मोहतः । न विद्मः किं जहीनोऽच किमुपादद्महे वयम्' इति । पूल । पूर्णादिषु पाठे भ्रंशः । वजधातोर्मार्गसंस्कारोऽर्थ उत संस्कार एवेत्यर्थं भ्रंशः । आगमभ्रंशात् शास्त्रभ्रंशात् । चूर्ण संकोचने । प्रेरणे पठितस्य पुनः पाठोऽर्थभेदकृतः । मर्च चेति । क्वचिद्धातुपाठेऽस्यादृष्टत्वेऽपि नायमप्रामाणिक इति मन्तव्यम् । 'मिदचोऽन्त्यात्परः' इति सूत्रे कैयटेनास्योपन्यस्तत्वात् । ' मर्तो मर्त मर्चयति द्वयेन' इति प्रयोगदर्शनाच्च । उपधायाश्च । 'ऋत इद्धातो:' इति वर्तते, तदाह धातोरुपधाया इति । ननु 'ऋत इद्धातो:' इति पूत्रे घातोर्ऋत इति