________________
३६४ ]
सिद्धान्तकौमुदी ।
चह १६२७
भोजना, नापि वेष्टना । यमयति चन्द्रम् । परिवेष्टत इत्यर्थः परिकल्पने । चहयति । श्रचीचद्दत् । कथादौ वक्ष्यमाणस्य तु श्रदन्तखेनाग्लोपित्वाद्दीर्घसम्बद्भावौ न । श्रचचहत् । चप इत्येके । चपयति । रह १६२८ त्यागे इये | रत् । कथादेस्तु श्रररहत् । बल १६२६ प्राणने । बलयति । चिञ् वेष्टनमिति । ' परिवेषस्तु परिधिः' इति कोशादिति भावः । न तु भोजनमिति । भुजेर्हेतुमण्ण्यन्तात् स्त्रियामित्यधिकारे 'रायासश्रन्थो युच्' क्लीबत्वं लोकात् । भोजनेत्येव क्वचित्पाठः । भोक्तुः पात्रे भोज्यद्रव्योपकल्पनमिह न परिवेषणमित्यर्थः । भोजनायां यमेर्हेतुमण्ण्यन्तस्य अमन्तत्वादेव मित्त्वसिद्धेरिति भावः । परिवेष्टत इत्यर्थ इति । अनेन इह परिविषेरएयन्ताल्ल्युटि परिवेषणशब्द इति सूचितम् । न च वेष्टनेऽप्यर्थे यमेरमन्तत्वादेव सिद्धे मित्त्वविधिर्व्यर्थ इति वाच्यम्, 'न कम्यमिचमाम्' इति मित्त्वप्रतिषेधप्रकरणस्थे 'यमोऽपरिवेषणे' इति घटाद्यन्तर्गणसूत्रे परिवेषणे इति पर्युदासेन भोजनतोऽन्यत्र वेष्टनेऽर्थे मित्त्वनिषेधस्य प्राप्तौ मिवप्रापणार्थत्वाद् ‘यमोऽपरिवेषणे' इत्यत्र परिवेषणशब्देन भोजनाया एव विवक्षितत्वेन वेष्टने यमेत्त्विनिषेधस्य प्रसङ्गात् । अत एव यमिर्भोजनातोऽन्यत्र न मिदिति व्याख्यातं मूलकृता । भोजनायां तु 'यमोsपरिवेषणे' इति मित्त्वनिषेधविधौ भोज - नायाः पर्युदासादेव तत्र मित्त्वनिषेधाभावादमन्तत्वादेव मित्त्व प्राप्तेरि चुरादौ परि वेषणशब्देन वेष्टनमेव विवक्षितं न तु भोजनेत्यास्तां तावत् । चह परिकल्पन इति । इत श्रारभ्य 'चिञ् चयने' इत्येतत्पर्यन्तं चेत्यनुवर्तते । श्रतस्तेषां मित्त्वाद् णिचि हखः, तदाह चहयतीति । नन्वनेनैव सिद्धे अग्रे चुराद्यन्तर्गणे कथादावस्य पाठो व्यर्थ इत्यत आह कथादाविति । कथादयोऽदन्ता इति वदयन्ते । तस्माण्णिचि अल्लोपे चहयतीत्यादौ अल्लोपस्य स्थानिवत्त्वाद् वृद्धयभावे मित्त्वाद् खे चन विशेषः । तथापि श्रदन्तात् चङि गौ अल्लोपे सति अग्लोपितया सन्वत्त्वदीर्घयोरभावे श्रचचहदिति रूपमस्ति फलमित्यर्थः । चप इत्येके इति । 'चह परिकल्पने' इत्यस्य स्थाने चप इत्येके पठन्तीत्यर्थः । 'रह त्यागे' इत्येके इत्यपि तथैव व्याख्येयम् । एवं च ज्ञपादिषु पञ्चसु चहधातुः चपधातुः रद्दधातुर्वा अन्यतमस्तृतीयः, बलधातुश्चतुर्थः, चिञ्धातुः पञ्चमः, इति कृत्वा ज्ञपादिपञ्चानां मतत्रयेऽपि पञ्चत्वात् ज्ञपादिपञ्चकत्वस्य न विरोधः । 'रह त्यागे' इत्यस्यापि कथादि - पाठफलमाह कथादेस्तु अररहदिति । श्रदन्तत्वेन ग्लोपित्वान्न दीर्घ सन्वत्त्वे न तु णिजन्तस्य । तथा च भोजनावद्वेष्टनाया अपि परिवेषणशब्दार्थत्वादुभयत्राप्यमन्तत्वेनैव मित्त्वं सिध्यति । वेष्टने तु परिवेषण इत्यनेन श्रमन्तत्वप्रयुक्तमित्यस्य १ 'परिकल्कने' इति क्वाचित्कः पाठः ।
1
[ चुरादि