________________
प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६३ हिंसायाम् । शुल्ब १६११ माने । शूर्प १६१२ च । चुट १६१३ छेदने। मुट १६१४ संचूर्णने । पडि १६१५ पसि १६१६ नाशने । पण्डयति, पण्डति । पंसयति, पंसति । ब्रज १६१७ मार्ग १६१८ संस्कारगत्योः । शुल्क १६१६ प्रतिस्पर्शने । चपि १६२० गत्याम् । चम्पयति, चम्पति । क्षपि १६२१ तानस्याम् । क्षम्पयति, चम्पति । तजि १६२२ कृच्छ्र जीवने। श्वत १६२३ गस्याम् । श्वभ्र १६२४ च । ज्ञप १६२५ मिञ्च । अयं ज्ञाने ज्ञापने च वर्तते । २५६८ मितां ह्रस्वः । (६-४-६२) मितामुपधायाः हस्वः स्यारणौ परे। ज्ञपयति । यम १६२६ च परिवेषणे । चान्मित् । परिवेषणमिह वेष्टनम् । न तु च तुलयतीति तुलनेति च रूपम्। श्राकारलोपस्य 'अचः परस्मिन्-' इति स्थानिवत्त्वान्न गुण इति भावः । व्रज मार्गेति । वाजयति । मार्गयति । यद्वा । मार्गेति न धात्वन्तरम् । व्रजधातुर्गिसंस्कारे गतौ चेत्यर्थः । शप मिच्चति । ज्ञपधातुर्णिचं लभते, मित्संज्ञश्चेत्यर्थः । मिर्वकार्यभागिति वा । धातुपाठे अर्थनिर्देशाभावा. दाह अयमिति । प्रच्छ ज्ञीप्सायामित्यत्र ज्ञाने 'श्लाघनुङ्स्थाशपां ज्ञीप्यमानः' इत्यत्र ज्ञापने च प्रयोगदर्शनादिति भावः । मितां हवः । 'ऊदुपधाया गोहः' इत्यत उपधाया इति 'दोषो णौ' इत्यतो णाविति चानुवर्तते, तदाह मितामुप. धाया इत्यादिना । शपयतीति । णिचि उपधावृद्धौ ह्रस्व इति भावः । यम च परिवेषणे । चान्मिदिति । इति अनुकृष्यते इति शेषः । यमधातुः परिवेषणे णिचं लभते, मित्कार्यभाक् चेत्यर्थः । मित्संज्ञक इति वा। परिवेषणमिह युचि चोदना। वज मार्ग। वाजयति । मार्गयति । केचित्तु मार्गेति न धात्वन्तरं किं तु वजेत्येक एव धातुर्गिसंस्कारे गतौ चेति व्याचख्युः । शप मिच्च । चाद्गतावित्येके । ज्ञपधातुणिचं लभते मित्संज्ञकश्चेत्यन्ये । ज्ञाने ज्ञापने चेति । 'प्रतिपज्ज्ञप्तिचेतनाः' । प्रच्छ जीप्सायामित्यत्र ज्ञाने । 'श्लाघनुङ्-' इति सूत्रे ज्ञीप्स्यमानो बोधयितुमिष्यमाण इति व्याख्याया ज्ञापने च प्रयोगदर्शनादिति भावः । वेष्टनमिति । 'परिवेषस्तु परिधिः' इत्यमरः । 'न त्वित्यादि । अयं भावः-घटादौ 'यमोऽपरिवेषणे' इति पठितं तत्र परिवेषणमिति हेतुभएण्यन्तस्य रूपम् । हेतुमएण्यन्तस्य हि भोजना वेष्टना चार्थः। तथा च अपरिवेषण इत्यनेन भोजनातो वेष्टनातश्चान्यत्र मित्त्वनिषेधेऽपि तयोरर्थयोस्त्वमन्तत्वादेव मित्त्वसिद्धेरिति । यद्यपि घटादौ 'यच्छतिर्भोजनातोऽन्यत्र मिति व्याख्यातं तथाप्यत्रत्यप्रन्थानुगुण्येनोपलक्षणतया तयाख्येयमित्याहुः । अत्रेद बोध्यम्-घटादौ 'यमोऽपरिवेषणे' इत्यत्र परिपूर्वकस्य विषेणिजन्तस्य ल्युटि रूपम् , 'यम च परिवेषणे' इत्यत्र तु केवलस्यैव ल्युटि रूपं