________________
सिद्धान्तकौमुदी।
[ चुरादि
३९२ ] रितार्थत्वारिणजन्तात्तङ् । स्माययते । श्लिष १५७४ श्लेषणे । पथि १५७५ गतौ । पन्थयति, पन्थति । पिच्छ १५७६ कुट्टने । छदि १५७७ संवरणे । छन्दयति, छन्दति । श्रण १५७८ दाने । प्रायेणायं विपूर्वः। । विश्राणयति । तड १५७६ प्राधाते । ताडयति । खड १५८० खडि १५८१ कडि १५८२ भेदने । खाडयति । खण्डयति । कण्डयति । कुडि १५८३ रक्षणे । गुडि १५८४ वेष्टने । रक्षणे इत्येके । कुठि इत्यन्ये । अवकुण्ठयति, अवकुण्ठति । गुठि इत्यपरे । खुडि १५८५ खण्डने । वटि १५८६ विभाजने । वडि इत्येके। मांडे १५८७ भूषायां हर्षे च । भडि १५८८ कल्याणे। छई १५८६ वमने । पुस्त १५६० बुस्त १५६१ श्रादरानादरयोः। चुद १५६२ संचोदने । नक्क १५६३ धक्क १५६४ नाशने। णोपदेशलक्षणे पर्युदस्तोऽयम् । प्रनक्कयति । चक्क १९६५ चुक्क १५६६ व्यथने । तल १५६७ शौचकर्मणि । तल १५६८ प्रतिष्ठायाम् । तुल १५६६ उन्माने । तोलयति । अत्तुलत् । कथं तुलयति तुलना इत्यादि । '-अतुलोपमाभ्यां-' (सू ६३०) इति निपातनादादन्तस्य तुलाशब्दस्य सिद्धौ ततो णिच् । दुल १६०० उत्क्षेपे । पुल १६०१ महत्त्वे । चुल १६०२ समुच्छ्राये। मूल १६०३ रोहणे । कल १६०४ बिल १६०५ क्षेपे । बिल १६०६ भेदने । तिल १६०७ स्नेहने । चल १६०८ भृतौ । पाल १६०६ रतणे । लूप १६१० मिङ् अनादरे । ननु णिचश्चेत्यात्मनेपदसिद्धः किमर्थं रिकरणमित्यत श्रात णिजन्तात्तङिति । तवेत्यर्थः । अकत्रभिप्रायेऽपि फले जिन्तादात्मने नार्थ विकरणमिति यावत् । ननु कृतेऽपि विस्करणे णिजन्तस्य उत्त्वाभावात् कथा - प्रयोजनलाभ इत्यत आह ङित्त्वस्य अवयवे अचरितार्थत्वादिति । न्यन्तावयवे मिधातौ ङित्त्वं व्यर्थम् , तस्य णिचं विना प्रयोगाभावात् । ततश्चावयवे श्रुतं ङित्त्वं रायन्तादेव कार्य साधयतीत्यर्थः । स्माययते इति । णिन्चि वृद्धा बायादेशे स्मायि इति ण्यन्ताल्लटस्तिपि शपि गुणायादेशाविति भावः । असिकायत । तुल उन्माने । कथमिति । लघूपधगुणप्रसङ्गादिति भावः । तुलनेति । 'एयास. श्रन्थो युच्' इति भावः । समाधत्ते अतुलोपमाभ्यामिति । आदन्तस्येति । तुलधातोर्यन्तात्पचाद्यचि निपातनाद् गुणाभावे स्त्रीत्वे तुलाशब्द आदन्तः । ततस्तत्करोति तदाचष्टे इति णिचि इष्टवत्त्वात् टिलोपे तुलि इति रायन्ताल्लटस्तिपि युचि असंस्कृतो भवति गच्छति वेत्यर्थः। स्माययत इति । आत्वं तु नेह भवति । 'नित्यं स्मयतेः' इति निर्देशेन 'स्मिङ् ईषद्धसने' इति भौवादिकादेव हेतुमएणौ तद्विधानात् । श्रण दाने । विश्राणनं वितरणम् । चुद संचोदने । ‘ण्यासश्रन्थ:-' इति