________________
प्रकरणम् ५२] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६१ १५५५ सम्बन्धने । सम्बयति । अससम्बत् । शम्ब ११५६ च। अशशम्बत् । साम्ब इत्येके । भन १५५७ अदने । कुट्ट १५५८ छेदनभर्सनयोः । पूरणे इत्येके । कुट्टयति । पुट्ट १९५६ चुट्ट १५६० अल्पीभावे। अट्ट १९६१ षुट्ट १५६२ अनादरे । प्रयति । अयं दोपधः । ष्टुत्वस्यासिद्धत्वाद् 'न न्द्रा:-' (सू २४४६) इति निषेधः । प्राहिटत् । लुण्ठ १९६३ स्तेये । लुण्ठयति । लुण्ठति इति 'लुठि स्तेये' इति भौवादिकस्य । शठ १५६४ श्वठ १५६५ प्रसंस्कारगत्योः । श्वठि इत्येके । तुजि १५६६ पिजि १५६७ हिंसाबलादाननिकेतनेषु । तुञ्जयति । पिजयति । इदिस्करणात् तुञ्जति पिअति । तुज पिज इति केचित् । लजि लुजि इत्येके । पिस १५६८ गती। पेसयति। पेसति इति तु शपि गतम् । षान्त्व १५६६ सामप्रयोगे। श्वरक १५७० वल्क १५७१ परिभाषणे । ष्णिह १५७२ स्नेहने । स्फिट इत्येके। स्मिट १५७३ अनादरे । अषोपदेशत्वान्न षः । असिस्मिटत् । ग्मि अनादरे इत्येके । डिवस्यावयवेऽच. द्विवचनेऽचीति निषेधाद् गुणात्प्राग द्वित्वे उरदत्वे हलादिशेष ऋकारस्य णिचमाश्रित्य गुणे रपरत्वे अपपर्थदित्यत्र लघुपरकत्वाभावेन सन्वत्त्वविरहादित्त्वदी? नेति भावः । अट्ट पुट्ट अनादरे । अयं दोपध इति । अट्टधातुरित्यर्थः । दकारस्य ष्टुत्वचत्वाभ्यां निर्देश इति भावः। दोपधत्वस्य प्रयोजनमाह ष्टुत्व. स्येति । तथा च दकारं विहाय टि इत्यस्य द्वित्वे श्राद् टिटत् इति स्थिते दस्य टुत्वे चर्वे च आट्टिटत् इति रूपमिष्टं सिध्यति । स्वाभाविकटोपधत्वे तु 'न न्द्राः' इति निषेधाभावात् टकारद्वयसहितस्य ण्यन्तस्य द्वित्वे हलादिशेषेणाभ्यासे प्रथमटकारस्य अनिवृत्तौ आटिट्टदिति अनिष्टं रूपं स्यादिति भावः । गृह्णाति । तथा च अचीक्लुपदित्यत्र 'उर्ऋत्' इत्यनेन ऋवणे सति अचीकृपदिति प्रसज्येतेति चेत् । मैवम् । लत्वस्यासिद्धत्वेन प्रथमम् 'उर्ऋत्' इत्यस्य प्रवृत्तौ पश्चात् 'कृपो रो लः' इत्यनेन ऋकारैकदेशस्य लुकारैकदेशविधानादिष्टसिद्धः । न च चलीक्लृप्यत इत्यादौ रीगागमादेर्लत्वार्थ 'कृपो रो लः' इत्यस्यावश्यकत्वेऽपि कृपूधातुः 'क्लपू सामर्थ्य' इत्येव पठ्यताम् । एवं हि प्रक्रियालाघवं लभ्यते । ऋकारैकदेशस्य लुकारैकदेश इति व्याख्यानक्कशोऽपि न भवतीति वाच्यम् । अचीक्लुपदित्यत्र 'उत्' इत्यस्य प्रवृत्तावनिष्टरूपप्रसङ्गात् । 'कृपो रो लः' इत्यनेन ऋकारैकदेशस्य लकारैकदेश इत्यभ्युपगमे तु उक्तव्याख्यानक्लेशध्रौव्यात् । इदं च कैयटरीत्योक्तम् । नत्विदं क्षोदक्षमम् 'ऋत उत्' इत्यनेन तपरकरणेन लुवर्णप्राहकत्वे रूपसिद्धेः स्पष्टत्वात् । अयं दोपध इति । टोपधत्वे त्वाटिट्टदिति स्यादिति भावः। शठ श्वठ । शाठयति ।