________________
३६० ]
सिद्धान्तकौमुदी ।
[ चुरादि
वर्ण १५५१ चूर्ण १५५२ प्रेरणे । वर्ण वर्णने इत्येके । प्रथ १५५३ प्रख्याने । प्राथयति । 'नान्ये मितोऽहेतौ' इति वच्यमाणत्वान्नास्य मिस्वम् । २५६६ अत्स्मृदृत्वरप्रथम्रद स्तृ स्पशाम् । (७-४-१५) एषामभ्यासस्याकारो ऽन्तादेशः स्याच्चङ्परे णौ । इत्त्वापवादः । श्रपप्रथत् । पृथ १५५४ प्रक्षेपे । पर्ययति । २५६७ उर्ऋत् । ( ७-४-७ ) उपधाया ऋवर्णस्य स्थाने स्स्याद्वा चङ्परे गौ । इररारामपवादः । श्रपीपृथत् श्रपपर्थत् । पथ इत्येके । पाथयति । षम्ब
"
एवमेव एवं जातीयकेषु द्रष्टव्यम् । प्रथ प्रख्याने । प्राथयतीति । णिचि उपधावृद्धिरिति भावः । नन्वस्य घटादिकत्वेन मित्त्वाद्ध्रस्वः स्यादित्यत आह नान्ये इति । ज्ञपादिपञ्चकव्यतिरिक्तचुरादिषु मित्त्वनिषेधादिति भावः । घटादिकस्य तु मित्त्वाद्धेतुमणिचि प्रथयतीत्येव भवति । न च चौरादिकस्यैव मित्त्वार्थं घटादावनुवादः किं न स्यादिति वाच्यम्, 'नान्ये मितोऽहेतौ' इति निषेधादित्यलम् । स्मृ । अभ्यासस्येति । 'अत्र लोपोऽभ्यासस्य' इत्यतस्तदनुवृत्तेरिति भावः । चङ्परे णाविति । 'सन्वल्लघुनि -' इत्यतः चङ्परे इत्यनुवर्तते । चड् परो यस्मादिति बहुव्रीहिः । अन्यपदार्थस्त्वर्थारिणरेवेति भावः । इत्त्वेति । 'सन्यतः' इति इत्त्वस्यापवाद इत्यर्थः । अपप्रथदिति । श्रत्र अत्त्वविधानादेव सन्वत्त्वविधौ अनेकहव्यवधानेऽपि लघुपरकत्वमिति विज्ञायते | अन्यथा येन नाव्यवधानन्यायाद् एकहल्व्यवधानस्यैवाश्रयाद् अत्र सन्वत्त्वविरहादेव इत्त्वा प्रवृत्त्या किं तेन । संयोगे परे गुरुत्वान्नाभ्यासदीर्घः । पृथ प्रक्षेपे । ऋदुपधः । पर्थयतीति । णिचि लघूपधगुणः, रपरत्वम् । उर्ऋत् । ऋ इत्यस्य उरिति षष्ठयन्तं रूपम् । ‘णौ चङ्युपधायाः-' इत्यनुवर्तते । 'जिघ्रतेर्वा' इत्यतो वेति, तदाह उपघाया इति । ननु ऋकारस्य ऋकारविधिर्व्यर्थ इत्यत श्राह इररारामपवाद इति । कृत संशब्दने । श्रचीकृतत् इत्यादौ ' उपधायाश्च' इति इत्त्वे रपरत्वे इर् प्राप्तः, श्रमीमृजदित्यत्र तु ‘मृजेर्वृद्धिः' इत्यार् प्राप्तः, प्रकृतपृथतौ तु चङि णिलोपे प्रत्ययलक्षणेन णिचमाश्रित्य लघूपधगुणे रपरत्वे अर् प्राप्तः तेषामपवाद इत्यर्थः ।
1
पीपृथदिति । णिचमाश्रित्य प्राप्तं गुणं बाधित्वा ऋकारे, द्वित्वे, इरदत्त्वे, हलादिशेष, सन्वत्त्वादित्त्वे, दीर्घे रूपमिति भावः । अपपर्थदिति । ऋत्वाभावपक्षे
बलवान्भवति । जीवति वेत्यर्थः । उर्ऋत् । 'जिघ्रतेर्वा' इत्यतो वेति वर्तते । इररारामिति । ऋकारोपधे तु 'उपधायाश्च' इत्यचीकृतदित्यादौ इर् प्राप्तः, श्रमीमृजदित्यत्र मृजेर्बृद्धिरार् प्राप्तः, इतरेषाम् ऋदुपधानां गुणेन श्रपीपृथदित्यादावर् इति विवेकः नन्विह उरित्यनूद्यमानः सवर्णान् गृह्णाति, ऋदिति विधीयमानस्तु न