________________
प्रकरणम् ५२] बालमनोरमा-तत्त्वबोधिनीसहिता। [३८६ चान्द्रः। पृ १५४८ पूरणे । पारयति । दीर्घोचारणं णिचः पाधिकरवे बिजम् । तद्धि सेटकत्वाय । एवं च पृणातिपिपर्तिभ्यां परिता परीता इत्यादिसिद्धावपि परति, परतः इत्यादिसिद्धिः फलम् । ऊर्ज १५४६ बलप्राणनयोः । पक्ष १५५० परिग्रहे। इति इत्त्वापवादस्य अत्त्वस्य विधानाल्लिङ्गात् । अन्यथा अपप्रथदित्यादी अनेकहल्व्यवधानाद् लघुपरत्वाभावादेव इत्त्वाप्रसक्त्या किं तेन । पृ पूरणे । ननु ह्रस्वान्त एवायं धातुर्निर्दिश्यताम् । तावतैव पारयतीत्यादिसिद्धेः । न च णिजभावपक्षे परिता परिष्य. . तीत्यत्र इड) दीर्वोच्चारणम् ऋदन्तत्वे अनि टकस्वप्रसङ्गादिति वाच्यम् , चुरादिणिचो नित्यत्वेन ततो णिजभावस्य शशशृङ्गायमाणत्वादित्यत आह दीर्घोचारणं णिचः पाक्षिकत्वे लिङ्गमिति । पृधातोरिति शेषः । णिचः पाक्षिकत्वे तु परितेत्यदौ पर्तेत्यादिवारणाय दीर्घोच्चारणमर्थवदिति भावः । ननु ह्रस्वान्त. स्वेऽपि परितेत्यादौ इट कुतो न स्यादित्यत आह तद्धि सेटकत्वायेति । हि यतः तद् दीर्घोच्चारणं परितेत्यादौ सेटकत्वार्थम् ऋदन्तत्वे तु इण्न स्थात् , 'ऊदृ. दन्तैः' इत्यनिटकारिकासु ऋदन्तस्य पर्युदासेन ऋदन्तस्यानिटकत्वावगमादिति भावः । ननु पृधातोः णिवः पाक्षिकत्वज्ञापकस्य किं फलम् । नाविकरणश्नुविकरणपठिताभ्यामेव पृधातुभ्यां परितेत्यादिसिद्धरित्यत आह एवं चेति । उक्तरीत्या पृधातोः णिचः पाक्षिकत्वे ज्ञापिते सतीत्यर्थः । परतीति । 'उदोष्ठय. पूर्वस्य' इत्युत्त्वं तु न भवति । पराभ्यां गुणवृद्धिभ्यां बाधादिति भावः । ऊर्ज बलेति । 'सन्वल्लघुनि-' इति सूत्रं द्वेधा व्याख्यातं प्राक् । तत्र चडि 'नन्द्रा:-' इति निषेधात् , जि इति णिजन्तस्य द्वित्वे उत्तरखण्डे चपरे णौ लघोरभावात् प्रथमव्याख्याने अभ्यासस्य तथाविधलघुपरकत्वविरहात् सन्वत्त्वविरहानाभ्यासदीर्घः,
और्जिजत् । द्वितीयव्याख्याने तु चपरे णौ यदङ्ग ऊ' इत्येतत् तदीयस्याभ्यासस्य चन्मादाय वा णिचं लुप्तमादाय वा लघुपरकत्वादभ्यासस्य दीर्घः, और्जीजत् । हवपक्षे सन्वद्भावविषयत्वाद् 'दीर्घो लघोः' इत्यभ्यासस्य दीर्घः। ह्रस्वाभावपक्षे तु न दीर्घ इत्याह अपीपिडदित्यादि । पृ पूरणे । दीर्घोचारणमित्यादि । पारयतीत्यादिरूपाणि ह्रखोच्चारणेऽपि सिध्यन्तीति परतीत्याद्यर्थ दीर्घोच्चारणमित्यर्थः । अत्र वदन्ति-धातुपाठकृता पाणिनिना विशिष्यैव उदात्ता अनुदात्ताश्च पठिताः, न हि ऋकारान्ताः सेटका इति । तेन परिभाषितं येनेत्थं तस्याशयः कल्प्येत । कविकल्पद्रुमे त्वस्य नित्यण्यन्तत्वमुक्कामति । एवं चास्मिन्पक्षे दीर्घोच्चारणं व्यर्थमिति फलि. तम् । अन्ये तु दीर्घोचारणं परिता परीतेत्यादौ 'वृतो वा' इति इटो दीर्घविकल्पाथम् । ततश्च णिज्विकल्पः सिद्ध एवेति परतीत्यादिरूपमाहुः । ऊर्ज। ऊर्जयति -