________________
३]
सिद्धान्तकौमुदी ।
[ चुरादि
1
"
कुद्रितत्रिमत्रिषु । स्फुडि १५३७ परिहासे । स्फुण्डयति । इदिष्करणात्स्फुण्डति । स्फुटि इति पाठान्तरम् । स्फुण्टयति । लक्ष १५३८ दर्शनाङ्कनयोः । कुद्रि १५३६ अनृतभाषणे । कुन्द्रयति । लड १५४० उपसेवायाम् । लाडयति । मिदि १५४१ स्नेहने । मिन्दयति, मिन्दति । श्रो लडि १५४२ उत्क्षेपणे । श्रोल्लण्डयति, घोलण्डति । श्रोकार इदित्येके । लण्डयति, लण्डति । उकारादिरयमित्यन्ये । उदण्डयति । बज । १५४३ श्रपवारणे । जल इत्येके । पीड १५४४ अवगाहने । पीडयति । २५६५ भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् । ( ७-४- ३ ) एषामुपधाया ह्रस्वो वा स्याचङ्परे णौ । अपीपिडत् अपिपीडत् । नट १५४५ श्रवस्पन्दने । श्रवस्पन्दनं नाटयम् । श्रथ १५४६ प्रयत्ने । प्रस्थाने इत्येके । बध १५४७ संयमने । बाध्यति । बन्ध इति सत्यपि नकारस्य अनुपधात्वादेव लोपाप्रसक्लया इत्त्वस्य प्रयोजनाभावादिति भावः । एवं 'कुद्रि श्रनृतभाषणे' 'तत्रि कुटुम्बधारणे' 'मत्रि गुप्तभाषणे' इति चुरादौ पठिष्यमाणेष्वपि इदित्त्वं त्यक्तुं शक्यमित्यर्थः । लड उपसेवायाम् । लाडयतीति णिचि श्रत उपधावृद्धिः । एवमग्रेऽपि ज्ञेयम् । अलीलडत् । पीड श्रवगाहने । भ्राजभास | 'णौ चधुपधाया हस्वः' इत्यनुवर्तते, तशह एषामिति । नित्ये उपधाहस्वे प्राप्ते विकल्पोऽयम् । ह्रस्वपक्षे लघुपरकत्वात्सन्वत्त्वादभ्यासदीर्घ इत्यभिप्रेत्याह अपीपिडदिति । श्रत्र उत्तरखण्डे हस्वः पूर्वखण्डे तु दीर्घः ह्रस्वाभावपचे तु लघुपरकत्वाभावात् सन्वत्त्वविरहान्नाभ्यासदीर्घ इति मत्वाह अपिपीडदिति । श्रत्र उत्तरखण्डे दीर्घः पूर्वखण्डे ह्रस्वः । नट अवस्पन्दन इति । अवस्पन्दनं नाट्यम् । नाटयति । अनीनटत् । श्रथ प्रयत्ने । श्राथयति । श्रशिश्रथत् । सन्वत्त्वविधौ अनेक व्यवधानेऽपि लघुपरत्वं न विरुध्यते, 'अत्स्मृदृत्वर--' शिथिलत्वे जगाण जगणतुरिति वृत्तिप्रयोगः कथं संगच्छतामिति शङ्कयम्, भ्वादेराकृतिगणत्वात् तत्रत्यधातोस्तद्रूप सिद्धेः । तच्चिन्त्यमिति । यत्रितत्रिमत्र्यादिषु इकारो व्यर्थ एवं न तु ज्ञापनार्थः । तेषां संयोगान्तत्वात् यन्त्रतन्त्रमन्त्र इति नकारे पठितेऽपि 'अनिदिताम् -' इति लोपो न लभ्यते नकारस्यानुपधात्वात् । चिन्त्यादित्यत्र तु चिन्त स्मृत्यामिति नकारोपधपाठे नलोपः स्यादेवेति तद्वारणाय क्रियमाण इकारस्तु ज्ञापक इति भावः । लड स्नेहपूर्विका सेवोपसेव । लाडयति पुत्रम् | लडयोरभेदाल्लालयति । ओकार इदित्येके इति । श्रदित्करणम् 'ओदितश्च' इति धातोरव्यवहितस्य निष्ठातकारस्य नत्वार्थमिति तद्बलान्ने डित्येके । लण्ड्राः । श्रदि• लादिड्रव्यवधानेऽपि नत्वमित्यन्ये । लण्डिनः । पीड अवगाहने | 'भ्राजभास -' इति
1