________________
प्रकरणम् ५२ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३८७ लिङ्गम् । तेन चिन्त्यात् , चिन्त्यत इत्यादौ नलोपो न । चिन्तति । चिन्तेत् । एतच ज्ञापकं सामान्यापेक्षमित्येके । 'प्रत एकहल्-' (सू २२६०) इत्यत्र वृत्तिकृता जगाण जगणतुरित्युदाहृतस्वात् । विशेषापेक्षमित्यपरे । अत एव 'श्रा पृषाद्वा' (ग सू २०२) इत्यस्य न वैयय॑म् । यत्रि १५३६ संकोचे । यन्त्रयति । यन्त्र इति पठितुं शक्यम् । यत्तु इदित्करणाधन्त्रतीति माधवेनोक्तं तश्चिन्त्यम् । एवं इत्यत्र च नलोपनिवृत्त्यर्थमिदित्त्वमिति शङ्कथम् । चुरादिणिचो नित्यत्वेन णिचं विना केवलात् चिन्त्यात् चिन्त्यते इति प्रयोगस्य शशशृङ्गायमाणत्वादित्यत आह चिन्तेत्यादि । तेनेति । पाक्षिकत्वेनेत्यर्थः । तथा च कदाचित् चिन्त्यात् चिन्त्यते इति प्रयोगस्य सत्त्वात् तत्र नलोपनिवृत्त्यर्थमिदित्करणमिति भावः। ननु तथापि यत्र नलोपप्रसक्तिस्तत्रैव चिन्त्यात् चिन्त्यते इत्यत्र णिज्विकल्पः स्यात् , नतु चिन्ततीत्यादौ, शपा व्यवधानेन तत्र नलोपस्याप्रसक्लेरित्याशङ्कय ज्ञापकमिदं चिन्त. धातुसामान्यापेक्षमित्यभिप्रेत्योदाहरति चिन्तति । चिन्तेदिति । ज्ञापकमिदं चुरादित्वसामान्यापेक्षमिति मतान्तरमाह एतच्चेति । ज्ञापकस्य चरादित्वसामान्यापेक्षत्वे वृद्धसंमतिमाह अत एकेति । ज्ञापकस्य चितिधातुमात्रविषयकत्वे गणधातोः चौरादिकस्य जगणतुरित्युदाहरणानुपपत्तिः स्पष्टवेति भावः । विशेषापेक्षमिति । चितिधातुमात्रविषयमित्यर्थः । इदमेव मतं युक्तमित्याह अत एवेति । सर्वस्यापि चुरादेणिज्विकल्पे सति 'श्रा धृषाद्वा' इति कपिपयचुरायन्तर्गणपठितानां णिज्विकल्पविधिवैयर्थ्यमिति भावः । यत्रि सङ्कोचे । यन्त्रयतीति । अकारस्य उपधात्वाभावान वृद्धिः । अययन्त्रदिति । अकारस्य गुरुत्वादलघुत्वाल्लघुपरकत्वाभावात् सन्वद्भावाभावाद् इत्त्वदी! न । एवमप्रेऽपि संयोगान्तधातून ज्ञेयम् । पठितुं शक्यमिति । नलोपाभावस्तु इदित्त्वस्य न फलम् , नकारस्य उपधात्वाभावादेव नलोपस्याप्रसक्तेरिति भावः। तञ्चिन्त्यमिति । यन्त्रयाद् इत्यणिजन्ते सन्वद्भावविषये हि जायमानो दीर्घः सन्वद्भावं नापेक्षत इति । सामान्यापेक्षमिति । सर्वेऽपि चुरादयो विकल्पेन णिचं लभन्त इत्येतदर्थकमित्यर्थः । न चैवम् 'प्राधृषाद्वा' इति व्यर्थमिति वाच्यम् , ज्ञापकसिद्धस्यासार्वत्रिकत्वात । एवं चास्मिपक्षे आधषीयाणामेवैच्छिको विकल्पः, अन्येषां तु शिष्टप्रयोगाद्यवस्थित इत्यर्थः । जगाण । जगणतुरिति । वृत्तौ चकाण चकणतुरिति प्रचुरः पाठस्तस्मिंस्तु पाठे नास्त्येव प्रकृतार्थसिद्धिः । केचित्तु णिजभावे गणयामासेत्यादिरूपाभावेऽपि गणधातो. रदन्तत्वाद्गणामासेत्यामा भवितव्यमिति जगाणेत्यादिपाठश्चिन्त्य इत्याहुः । न वैययमिति । वैयर्थ्यशङ्कापि नेत्ययमेव पक्षो युक्त इति भावः । न च पूर्वोक्तपक्षस्य