________________
३८६ ] सिद्धान्तकौमुदी। [चुरादिग्रहणं प्रपञ्चार्थम् । चुरादिभ्यस्तु स्वार्थे । 'पुगन्त-' (सू २१८६ ) इति गुणः । 'सनाद्यन्ताः-' (सू २३०४) इति धातुस्वम् । तिप्शबादि गुणायादेशौ । चोरयति । २५६४ णिचश्च । (१-३-७४) णिजन्तादात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले । चोरयति, चोरयते । चोरयामास । चोरयिता । चोर्यात् । चोरयिषीष्ट । 'णिश्रि-' (सू २३११) इति चङ् । 'णौ चङि-' (सू २३१४ ) इति द्वस्वः । द्वित्वम् । 'हलादिः शेषः' (सू २१७६)। 'दी? लघोः' (सू २३१८) इत्यभ्यासदीर्घः । अचूचुरत् ,अचूचुरत। चिति १५३५ स्मृस्याम् । चिन्तयति । अचिचिन्तत् । चिन्त इति पठितव्ये इदिरकरणं णिचः पाक्षिकत्वे सत्यं करोति सत्यापयति' इत्यादिभाष्यविरोधादिति भावः । नामधातुप्रकरणे सत्यादिचूर्णान्तानामुदाहरणानि मूल एव स्फुटीभविष्यन्ति । चुरादिभ्यस्तु स्वार्थे इति । अर्थान्तरस्यानिर्देशादिति भावः । अत्र 'धातोरेकाचः-' इत्यतो धातोरित्यनुवर्तते । चुरादिभ्यो धातुभ्यो णिजिति फलितम् ततश्च णिच श्रार्धधातुकत्वं सिध्यति । अन्यथा धातोरिति विहितत्वाभावादार्धधातुकत्वं न स्यादिति बोध्यम् , तदाह पुगन्तेति गुण इति । णिचि कृते चुर इ इति स्थिते 'णिच श्राधधातुकत्वात्तस्मिन् चकारादुकारस्य 'पुगन्तलघूपधस्य-' इति गुण इत्यर्थः । णिचश्च । 'अनुदात्तङितः-' इत्यत आत्मनेपदमिति 'स्वरितत्रितः कभिप्राये क्रियाफले' इति चानुवर्तते। प्रत्ययग्रहणपरिभाषया णिजन्तादिति लभ्यते, तदाह णिजन्तादित्यादिना । चोरयतीति । चोरयिष्यति, चौरयिष्यते । चोरयतु, चोरयताम् । अचोरयत्, अचोरयत । चोरयेत् , चोरयेत । आशीलिङि परस्मैपदे आह चोर्यादिति । 'णेरनिटि' इति णिलोप इति भावः । आशीलिङि आत्मनेपदे आह चोरयिषीऐति । लुब्याह णिश्रीत्यादि । दी? लघो. रिति । 'सन्वल्लघुनि-' इति सन्वद्भावविषयत्वादिति भावः । चिति स्मृत्याम् । चिन्तयतीति । इदित्त्वान्नुमि णिजन्तात्तिङ उत्पत्तिरिति भावः । ननु इदित्करणं मास्तु प्रक्रियालाघवात् । 'चिन्त स्मृत्याम्' इत्येवोच्यताम् । न च नलोपनिवृत्त्यर्थमिदित्त्वमिति वाच्यम् , चिन्तयति चिन्तयांचकार इत्यादौ णिचः विडत्त्वाभावादेव नलोपस्याप्रसः । न च णिजभावे आशीर्लिकि चिन्त्यादिति कर्मलकारे यकि चिन्त्यते नास्माभिरुपपाद्यन्ते । त्वचशब्दोऽकारान्तः। प्रपश्चार्थमिति । सत्यापप्रहणं तु आपुगर्थमिति ज्ञेयम् । अन्ये त्वाहुः-सापेक्षेभ्योऽपि गिजर्थमेषामुपादानम्। अन्यथा रमणीयं घटं करोतीत्यादाविव रमणीयं रूपयतीत्यादावपि णिज् न स्यादिति । अचचुरदिति । अत्र प्राचा व्याख्यात्रा 'सन्वल्लघुनि-' इति सन्वद्वाव इत्युक्तं तद्रभसात् ।