________________
प्रकरणम् ५२ ] बालमनोरमा तत्त्वबोधिनीसहिता। [ ३८५ ग्रहीषीष्ट । 'ययन्त-' (सू २२६६ ) इति न वृद्धिः। अग्रहीष्टाम् । अग्रहीष्ट अग्रहीषाताम् अग्रहीषत ।
॥ इति तिहन्ते क्रयादिप्रकरणम् ॥ अथ तिङन्ते चुरादिप्रकरणम् ॥ ५२ ।।
चुर १५३४ स्तेये। २५४३ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् । (३-१-२५) एभ्यो णिच् स्यात् । चूर्णान्तेभ्यः । 'प्रातिपदिकाद्धास्वर्थे-' (ग सू २०३ ) इत्येव सिद्धे तेषामिह भावः । लिङस्तझ्याह ग्रहीषीष्टेति । 'ग्रहोऽलिटि-' इति दीर्घः। 'न लिङि' इति इटो दीर्घनिषेधस्तु न, तत्र वृत इत्यनुवृत्तेः । अग्रहीष्टामिति । 'अहोऽलिटि-' इति दीर्घः । अग्रहीषु । अग्रहीरित्यादि । लुङस्तब्याह अग्रहीष्टेति । 'ग्रहोऽलिटि-' इति दीर्घः । अग्रहीषतेति । अप्रहीष्टाः इत्यादि सुगमम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बामनोरमाख्यायां श्नाविकरणनिरूपणं समाप्तम् । अथ स्वार्थिकरिणजन्ताः चुरादिधातवो निरूप्यन्ते । चुर' स्तेय इति । रेफादकार उच्चारणार्थः, न स्वित्संज्ञकः, प्रयोजनाभावात् , "णिचश्च' इति पदव्यवस्थाया वक्ष्यमाणत्वाच्च । एवमग्रेऽपि । सत्याप। सत्याप पाश रूप वीणा तूल श्लोक सेना लोमन् त्वच् वर्मन् वर्ण चूर्ण चुरादि एषां द्वन्द्वात्पञ्चमी, तदाह एभ्यो णिच् स्यादिति । कस्मिन्नर्थे इत्याकाङ्क्षायामाह चूर्णान्तेभ्य इति । सत्यादिभ्यः चूर्णान्तभ्यो द्वादशभ्यः करोत्याचष्टे इत्याद्यर्थे 'प्रातिपदिकाद्धात्वर्थे बहुलम्' इति वक्ष्यमाणेन सिद्धमेवार्थनिर्देशनमित्यर्थः ननु तेनैव सिद्धत्वादिह चूर्णान्तानुकमणं व्यर्थमित्यत आह तेषामिह ग्रहणं प्रपश्चार्थमिति । न च तेभ्यः खार्थे एव णिज्विधिरस्त्विति वाच्यम्, 'सत्यस्य तु कृश्यापुग् निपात्यते । किम् , जाप्रहिता । जापहिष्यति । इत्यादौ यङ्लुकि माभूत् । विहितस्येति किम् , प्राहितम् । न चात्र णिलोपस्य स्थानिवद्भावाद् आहेः परत्वं नेति वाच्यम् । दीर्घविधौ स्थानिवत्त्वनिषेधात् । त्रैपादिकदीर्घविधावेव स्थानिवत्त्वनिषेध इत्यभ्युपगमे तु विहिते विशेषणं व्यर्थमेवेत्याहुः । प्रकृतस्येटो प्रहणाद् प्राहिता प्राहिष्यत इत्यादौ चिरावदिटो न दीर्घः । अहिषीष्टेति । वृत इत्यनुवृत्तेः 'न लिङि' इति दीर्घनिषेधो न प्रवर्तते । अग्रहीषातामिति । लुङात्मनेपदद्विवचनम् ।
इति तत्त्वबोधिन्यां क्रयादिप्रकरणम् । सत्यापपाश । एतस्योदाहरणानि अग्रे नामधातुषु स्फुटीभविष्यन्तीति