________________
३८४] सिद्धान्तकौमुदी। [क्रयादिवादेशौ स्तोऽनुनासिके को मलादौ च क्ङिति । सैनाति । चखाव । खविता । शानचः परत्वादूठि कृते हलन्तस्वाभावाम शानच् । हेठ १५३२ च । ष्टुत्वम् । हेटणाति । ग्रह १५३३ उपादाने । स्वरितेत् । 'पहिज्या-'" (सू २४१२)। गृह्णाति । गृहीते । २५६२ ग्रहोऽलिटि दीर्घः। (७.२-३७) एकाचो ग्रहेर्विहितस्येटो दीर्घः स्याच तु लिटि । प्रहीता। लिटि तु जनहिथ । गृह्यात् । विच्छधातोः प्रच्छधातोश्च औणादिके नङ्प्रत्यये अन्तरङ्गत्वात् 'हे च' इति तुकि कृते सति सतुक्कस्य छस्य शकार आदेशः । वकारस्य ऊठमुदाहरति खोनातीति । खव् ना ति इति स्थिते वकारस्य ऊठ , ठकार इत् 'एत्येधत्यूठ्' इति वृद्धिरिति भावः । खौनीतः खौनन्तीत्यादि । खव् ना हि इति स्थिते 'इलः श्नश्शा नज्मो' इति शान जादेशमाशङ्कयाह शानचः परत्वादिति । हेठ चेति । हेठधातुरपि भूतप्रादुर्भावे वर्तते इत्यर्थः । ग्रह उपादान इति । अदुपधः । स्वरितेत्वादुभयपदी । किति ठिति च संप्रसारणं स्मारयति अहिज्येति । गृह्णाति, गृहीते इति। श्राप्रत्ययस्य हित्त्वाइफस्य संप्रसारणे पूर्वरूपमिति भावः । णलि द्विलं कृते लिट्यभ्यासस्य-' इति संप्रसारणे उरदत्वे रपरत्वे हलादिशेषे अभ्यासचुत्वे अपधावृद्धिः ।जग्राह । अतुसादौ क्छिति परत्वाद् 'अहिज्या-' इति संप्रसारणे कृते द्वित्वादि । जगृहतुः जगृहुः। जाहिथ जगृहथुः जगृह । जग्गाह, जग्रह जगृहिव जगृहिम । जगृहे जगृहाते जगृहिरे। जगृहिषे जगृहाथे जगृहिदवे, जगृहिवे। जगृहे जगृहिवहे जगृहिमहे । ग्रहोऽलिटि दीर्घः । प्रह इति दिग्योगे पञ्चमी । 'आर्धधातुकस्यैट्-' इत्यत इडित्यनुवृत्तं षष्ठ्यन्तं . विपरिणम्यते । 'एकाच उपदेशेऽनुदात्तात्' इत्यत एकाच इति च, तदाह एकाच इत्यादि । 'एकाचः' किम् ? यङ्लुकि माभूत् । जाग्रहिता। 'विहितस्य' इति किम् ? प्राहितम् । णिलोपे कृते बद्धातोः परत्वेऽपि विहितत्वाभावादिटो न दीर्घः । न च णिलोपस्य स्थानिवत्त्वाद् न प्रहधातोः पर इडिति वाच्यम् , दीर्घविधौ स्थानिवत्त्वनिषेधात् । अलिटि इत्यस्य फलमाह लिटि तु जग्रहिथेति । गृह्यादिति । आशीलिङि यासुटः कित्वात्संसारणमिति स्यानुकरणम् । चुत्वेन तकारस्थाने चकार इत्याह सतुक्कस्येति । एवं च सूत्रे छकारात्पूर्व चकारो ज्ञेयः। सतुकस्य किम्, विच्छप्रच्छाभ्यो नङप्रत्यंग छकारस्य शकारे कृते तुकोऽश्रवणं यथा स्यात् । अकृतन्यूहपरिभाषा त्वनित्या अस्मादेव सतुकप्रहणात् । तेनातिकान्तो भवकन्तमतिभवकानित्यादि सिद्धमित्याहुः। सूत्रस्थेन चशब्देन किझलोः विडतीत्यनुकृष्यत इत्याह कावित्यादि । प्रहो लिटि दीर्घः । एकाचः
१'हिठ च' इति पुस्तकान्तरे पाठः ।